________________
३७४ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ५ गम्याभिगमोपायविषयेण प्रश्नेनोपक्रान्तं चोदयित्वाऽतः प्रतिवचनमपि तथैवाचार्येणोच्यते, येन लक्षणेन प्रमाणानि तद्विषयश्च लक्ष्यते तद्व्यापि लक्षणमभिधीयत इति । तच्चेदं सूत्रम्
सूत्रम्-उत्पादव्ययधौव्ययुक्तं सत् ॥ ५-२९ ॥ भा०-उत्पादव्ययाभ्यां ध्रौव्येण च युक्तं सतो लक्षणम् ; यदुत्पद्यते, यद् व्येति , यच्च ध्रुवं तत् सत् ; अतोऽन्यदसदिति ॥ २९ ॥
टी०-उत्पादव्ययाभ्यामित्यादि । समासतश्चायं सूत्रार्थः-स्थित्युत्पत्तिविनाशस्वभावं सद् , अवश्यन्तयैव स्थित्युत्पादविनाशाः समुदिता एव सत्त्वं गमयन्ति । स्थित्यादयो हि सत एव भवन्ति, न जातुचिनिरुपाख्यस्य, केनचिदप्याकारणानुपाख्यायमानत्वादिति । यत् कथंचिन्न ध्रुवं न चोत्पद्यते न च व्येति तन्न सदिति । इदं च सूत्रं द्रव्यपर्यायनयद्वयगर्भम्, यतो द्रव्यास्तिकपर्यायास्तिकावुत्सर्गापवादस्वभावौ मूलं सङ्ग्रहादिप्रपञ्चस्य, तनिरूप्यं च सर्व वस्तु, ते च सङ्ग्रहादयः प्रथमाध्याये विध्यपवादस्वरूपतया निरूपिताः, विशेषविवक्षया तु किञ्चिदुच्यते-उत्सर्गो विधियापित्वमप्रतिषेधः, न ह्यसौ द्रव्यनयो विशेषमिच्छति, विशेषो हन्यप्रतिषेधेनात्मानं प्रतिपादयति भावान्तरत्वात्, न चाभावः प्रतिषेधमात्रम् । प्रागभावो हि घटस्य मृत्पिण्डः प्राग्घटोत्पादाद् घटस्थाभावः पिण्ड एवानाविर्भूतघटाकारः १प्रध्वंसाभावोऽपि कपालाद्यवस्थाप्रध्वंसो विनाशः, स चावस्थान्तररूपत्वाद् वस्तुस्वभावं न जहाति, वर्णकविरचनामात्रप्रापितनटान्यत्ववदुत्फणविफणादिसंस्थानमात्रत्यागिसवद् वा २, इतरेतराभावोऽपि स्तम्भकुम्भादीनां परस्परव्यतिरेकरूपत्वान्नावस्तु, घटो हि घटसंस्थानादिव्यतिरेकापेक्षस्वरूप एवाभावशब्दवाच्यः, समस्तवस्तुनश्च तथाविधत्वाभ्युपगमादू वस्त्वेव भवतीतरेतराभावः ३;
अभावस्या- न चात्यन्ताभावः कश्चिदनुपाख्योऽस्ति, सर्वप्रकारमनुपाख्यायमानप्रतिषेधात्मकता स्वरूपानधिगमात्, शशविषाणादेवंस्त्ववस्थान्तरत्वादुपलब्धिविषयत्वम्, शशविषाणाभावो हि मौण्डयं समतलमस्तकस्वरूपोपलब्धिर्नात्यन्ताभावः, विषाणसद्भावादन्यत्र शशकमस्तकसद्भावाचेतरेतराभाव एव, समवायसम्बन्धप्रतिषेधमात्रत्वाद, वा अन्यत्र च तस्य सत्त्वान्नात्यन्ताभावः, नामकर्मपरिणामवशाच्चापत्यवत्वे वन्ध्यायाः केन तद्वत्ता निवार्यते, नहि पूर्वोपात्तकर्मविपरिणामव्यतिरेकेण तज्जीवतथाविधपरिणत्यभावे वा उत्तरजन्मप्रतिपत्तिरमूलत्वात् ४; अतः सर्व एव पदार्था द्रव्यक्षेत्रकालभावभेदापेक्षाः कदाचिदुपलभ्यन्ते प्रत्यक्षादिना, प्रमाणेनावधायन्ते, कदाचिदुपलब्धाः सन्तोऽपि भूयो नोपलभ्यन्ते, द्रव्यादिविप्रकर्षात्, सत्यपि मतिज्ञानावरणीयकर्मक्षयोपशमकारणसाकल्ये
१ 'उत्पादव्ययौ ध्रौव्यं च युक्तं ' इति घ-पाठः। २ सामान्यविशेषोभयाग्राहित्वान्नैगमस्य संग्रहव्यवहारयोरन्तर्भावात् । ३ पूर्वःपूर्वो विधिः परःपरोऽपवाद इति । ४ 'प्रतित ' इति क-ख पादः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org