________________
सूत्र २८ ]
स्वोपज्ञभाष्य–टीकालङ्कृतम्
३७३
तस्मान्नैन्द्रियकत्वे सङ्घातः केवलो हेतुर्भवति, नापि परिणामः, किं तर्हि ? उभाभ्यां भेदसङ्घाताभ्यामेककालाभ्यां चाक्षुषा भवन्ति, चक्षुर्ग्रहणाच्च समस्तेन्द्रियपरिग्रहः, पश्यति - उपलभते इति चक्षुः, स्पर्शरसगन्धशब्दा अप्येवंविधपरिणामभाज एव निजोपलम्भनैरुपलभ्यन्त इति ॥ अचाक्षुषास्त्वित्यादि । ये पुनरतीन्द्रिया व्यणुकादयोऽनन्ताणुकपर्यवसानाः स्कन्धाः सूक्ष्मास्ते यथामिहितात् त्रिविधात् कारणात् सङ्घातादेरुत्पद्यन्ते । न चेदमाशङ्कनीयम्-त एव बादरास्त एव च पुनः सूक्ष्मा इति यतो विचित्रपरिणामाः पुद्गलाः कदाचिद् बादरपरिणाममनुभूय जलधरशतक्रतुचाप सौदामिनी लवणसकलादिकमथ पश्चादलक्षणीयपरिणाममात्मस्वरूपावस्थानस्वभावमतिसूक्ष्ममाददते करणान्तरग्रहणलक्षणतां वा भजन्ते लवणहिङ्गुप्रभृतयः, सूचनीयपरिणामश्च जनित्वा पुनरपि वियति परितः सकलदिगन्तरावरोधिवारिधरत्वादिना स्थूलनाकारेण परिणमन्ते । तुशब्दः पुनःशब्दार्थे, चशब्दः समुच्चये, इतिशब्दः प्रकृतपुङ्गलप्रकरणपरिसमापनार्थः ॥ २८ ॥
भा० - अत्राह - धर्मादीनि सन्तीति कथं गृह्यत इति ? | अत्रोच्यते-लक्षणतः । किञ्च सतो लक्षणमिति ? । अत्रोच्यते
"
aro - अत्राहेत्यादि सम्बन्धग्रन्थः । धर्मादीनां द्रव्याणां यथासम्भवं गतिस्थित्युपग्रहादिलक्षणमुक्तं वैशेषिकम् अधुनाऽन्तरङ्गव्यापिलक्षणजिज्ञासया सन्दिहानः प्रश्नयति-धर्मादीनि सन्तीति कथं गृह्यत इति । अस्ति चात्र सन्देहबीजम् - किं विकारग्रन्थिरहितं सत्तामात्रमेते धर्मादयः आहोस्विद् विकारमात्रमुत्पादविनाशलक्षणमथोभयम् । इत्येवमनेकप्रकारसम्भवे सन्देहः, कथं- केन प्रकारेण, धर्मादीनि सन्ति - विद्यन्त इति । इतिशब्दो हेतौ । येन हेतुना सत्त्वमेषां निश्चीयते तद्विषयत्वमितिकरणस्य, वाक्यपर्यन्तवर्तीति शब्दः प्रष्टव्यार्थे यत्ताख्यापनार्थः । गृह्यत इति ग्राह्य, निश्रेयमित्यर्थः । किं तदस्तित्वमेषामिति । अथवा धर्मादीनि सन्तीत्यस्तित्वमेव सन्दिग्धे परः ॥ ननु च येषां गत्याद्युपकारेणानुमितमस्तित्वं प्राक् ते प्रसिद्धसत्ताका एव, कुतः सन्देहः ? अयमभिप्रायः प्रष्टुः - गत्याद्युपग्रहकारिणः किल धर्मादयः केऽपीत्यप्रसिद्धसत्ताकेनैव प्रपत्त्राभ्युपेतम् । इदानीं तु प्रश्नयति-कथं पुनरेषां धर्मादीनां सल्लक्षणसूत्राव - विद्यमानत्वं निश्रेयमिति ? । आचार्य आह-अत्रोच्यते - लक्षणतः ॥ आचार्यस्यायमभिप्रायः, सङ्ग्रहादेकीभावादुत्पादादयः सल्लक्षणमस्तिशब्दविषयः, एवंविधाचैत उपलभ्यन्त इत्यतः सामान्येन तावदुपन्यस्यति - लक्षणत इति । पुनरपि सामान्याभिधाने सन्दिहान आह-किश्च सतो लक्षणमिति १ । किं पुनः सतो लक्षणं, लक्ष्यते येन लक्षणेन प्रमाणानि तद्विषयश्च, लक्ष्यते येन सदेतदिति । अत्रोच्यते - इत्याचार्यः प्रतिजानीते, सत्त्वलक्षणम्, तेषां धर्मादीनामस्तित्वाव्यभिचारिलिङ्गमिदमुच्यते । एतदुक्तं भवति — धर्माधर्माकाशपुद्गलजीवाः पञ्चास्तिकाया जगतः स्वतत्त्वम्, तत्र जीवद्रव्यं धर्मादीनां ग्राहकं स्वरूपस्य चेति, सङ्क्षेपतः शब्दार्थज्ञानानि सत्त्वलक्षणलक्ष्याणीति, अतः सकलाधि
तरणम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org