________________
২৩৭
सूत्र २९ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् उपयोगे च किश्चिद् द्रव्यमन्यात्मपरमाणुब्यणुकादि वैक्रियशरीरादि च सदपि नोपलभ्यते,
_ तस्य च द्रव्यस्य तथाविधपरिणामात्, आदिशब्दाद् दिवा तारकादयो कपाचश्यामा माषश्च माषराशावुपक्षिप्तः, किञ्चित् क्षेत्रविप्रकोद्धि दूगत्यासन्नसव्यवधामनुपलब्धेहेतवः न
नवर्ति विद्यमानमेव नोपलम्भविषयभूयमास्कन्दति, तथाऽपरं कालविप्रकर्षादनाविर्भूतं तिरोभूतमुपलब्धेरगोचरः, तथाऽन्यद्भावविप्रकर्षात् परकीयात्मवर्तिमतिज्ञानविकल्पजालमण्वादिपरिवर्ति च संस्थानरूपादिपर्यायकलापजातं सदप्यनुपलभ्यम्, विवक्षितोपलब्धेश्वान्या उपलब्धिरनुपलब्धिः, पयुदासवृत्तेरभ्युपगमात्, न पुनरुपलब्ध्यभावोऽनुपलब्धिः , अनुपाख्यस्याभावस्य प्रत्याख्यानात्, भावस्यैव चाभावशब्देन कथश्चिदभिधेयत्वात्, तसादुपलम्भकारणभाज एवानुपलब्धिर्नान्यथा, व्यवस्थितमिदं नाभावः प्रतिषेधमात्रमिति । एवं च धौव्यं द्रव्यास्तिकः, अस्तीति मतिरस्येत्यास्तिकः द्रव्य एवास्तिको द्रव्यास्तिकः, सकलभेदनिरासादकृतलक्षणस्य च तत्पुरुषस्य मयूरव्यंसकादिप्रक्षेपात् समसनम्, तच्च द्रव्यं भवनलक्षणं मयू. राण्डकरसवदुपारूढसर्वभेदबीजं निर्भदं देशकालक्रमव्यङ्ग्यभेदं समरसावस्थमेकरूपं भेदप्रत्यवमर्शनाभिन्नमपि भिन्नवदाभासते, तदाश्रयाच्च भवितरि विशेषे भवति भावता, अन्यथा तु
___भाव एव न स्यात् भविता विशेषो, भवनव्यतिरेकित्वात्, तदव्यतिद्रव्यपर्यायास्तिको रिक्तरूपत्वाच भवितुर्विशेषस्य तत्स्वरूपवद्भावता, तदव्यतिरिक्तरूपता
__ च । एवं सति भवनमात्रमेवेदं कृत्स्नं भेदाभिमतास्त्वेता वृत्तयस्तस्यैव न जात्यन्तराणीति ॥ पर्यायः पुनरपवादस्वभावाऽन्यपरिवर्जनमपवदनमपवादः स ह्यन्यपरिवजैनेनान्यं प्रतिपादयति, प्रतिषेधरूपत्वाद, अघटो न भवतीति घटः, पर्याया एव सन्ति न पुनद्रव्यं नाम किञ्चिदेकं पर्यायार्थान्तरभूतमस्ति, द्रव्यास्तिकावधारितधौव्यवस्तुप्रतिक्षेपेण भेदा एव वस्तुत्वेन प्रतिज्ञायन्तेऽतः पर्याये आस्तिकः पर्यायास्तिकः, समुपलभ्यमानायःशलाकाकल्पभेदकलापव्यतिरेकेण द्रव्यस्यानुपलम्भात् ॥ ननु च रूपादिव्यतिरेकेण मृद्रव्यमित्येकवस्त्वालम्बनश्चाक्षुषः प्रत्ययः प्रत्याख्यातुमशक्यः सन्तमसपटलावच्छादितप्रदेशवर्तिनि वा
__मृद्रव्ये स्पशेनज्ञानमभिन्नद्रव्यमात्रालम्बनमसत्यमिति वा भाषितुं न द्रव्यस्यापलापः पार्यत इत्यस्त्यभिन्नमेकं द्रव्यमभेदज्ञानविषयत्वात्, न चायमभेदप्रत्ययो
भ्रान्तः, पुनः पुनः प्रेक्षापूर्वकारिभिस्तथैवोपलभ्यमानत्वात्, नैतदेवम्, अन्यविषयत्वाद् रूपस्पर्शविषयाचक्षुःस्पर्शनज्ञानाद् भिन्न विषयोपलम्भिनोऽन्यदेव रूपादिसमुदयविषयं सार्तमभेदज्ञानमुत्पद्यते स एवायं घटो यमहमद्राक्षमहनि रात्रौ वा यं चास्पाक्षम्, अतो रूपाद्यग्रहे तस्या अभेदबुद्धेरनुत्पादात् ॥ एतदुक्तं भवति-दृष्ट्वा स्पृष्टा वा स एवायं घट इति यदभेदज्ञानं तद् रूपादिसमुदयविषयं स्मार्तम्, तदग्रहे सत्यनुत्पत्तेः, यथा विज्ञानं धवाद्यग्रहे सत्यनुत्पद्यमानं धवादिविषयमिति ॥ नन्वालोकाग्रहणे शुक्लबुद्धिर्न भवति, न चालोकविषया शुक्लबुद्धिरित्येवमन्यत्वेऽपि साध्ये, न चालोका रूपं नान्यदित्यनेकान्तः, नैतदेवम्, हेत्वर्थापरिज्ञानात्, रूपाद्यग्रहे तबुद्धयभावादित्यनेन तदभावाभावमुखेन रूपादिग्रहे सत्येव भावादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org