________________
सूत्र २२ ]
स्वोपज्ञभाष्य–टीकालङ्कृतम्
गति - विचारः
डी० - क्रिया गतिरित्यादिभाष्यम् । करणं क्रिया - द्रव्यपरिणामस्तस्यानुग्राहकः कालः, तद्यथा - आकाशदेशावल्यामगुली वर्तते अतीतानागतेति च, अन्यथाऽतीत एव वर्तमानोऽनागतश्च स्यात्, एवमनागतो वर्तमानश्च सङ्कीर्येत, अनिष्टं चैतत् तस्मादस्ति कालो यदपेक्षयाऽतीतादिव्यपदेशाः परस्परासङ्कीर्णाः संव्यवहारानुगुणाः प्रथन्ते तत्रातीतो द्विविधः भाव - विषयभेदात्, विनष्टो घट इति भावातीतः, विषयातीतश्चक्षुरादिग्रहणानन्तरमद्राक्षं घटम्, तथानागतदिहक्षाभ्यर्णो घटो विषयानागतः, अलब्धात्मभावो भावानागत इति । तत्र प्रयोगगतिः जीवपरिणामसम्प्रयुक्ता शरीराहारवर्णगन्धरसस्पर्श संस्थान विषया, विस्रसागतिः प्रयोगमन्तरेण केवल जीवद्रव्यस्वपरिणामरूपा, परमाण्वन्द्रधनुः परिवेषादिरूपा प्रयोगगत्यादिविचारः विचित्रसंस्थाना, मिश्रिका प्रयोगविस्रसाभ्यामुभयपरिणामरूपत्वाज्जीवप्रयोगसहचरिताचेतनद्रव्यपरिणामात् कुम्भस्तम्भादिविषया, कुम्भादयो हि तेन तादृशा परिणामेनोत्पत्तुं स्वत एव शक्ताः कुम्भकारसाचिव्यादुपजायन्ते, वर्तनापरिणामयोः क्रियाजातीयत्वादेव पर्यन्ते क्रियोपादानम्, परिणामात्र प्रधानमित्यतो वर्तनाक्रिययोः स मध्येऽधीतः सूत्रकारेण परिणतिविशेषा एव वर्तनाक्रियाभेदा इति ॥
भा०- परत्वापरत्वे त्रिविधे - प्रशंसाकृते क्षेत्रकृते कालकृते इति । तत्र प्रशंसाकृते परो धर्मः परं ज्ञानमपरोऽधर्मः अपरमज्ञानमिति । क्षेत्रकृते एकदिक्कालावस्थितयोर्विप्रकृष्टः परो भवति, सन्निकृष्टोऽपरः । परत्वापरत्वविचारः कालकृते द्विरष्टवर्षाद् वर्षशतिकः परो भवति, वर्षशतिकाद् द्विरष्टवर्षोऽपरो भवति । तदेवं प्रशंसाक्षेत्रकृते परत्वापरत्वे वर्जयित्वा वर्तनादीनि कालकृतानि कालस्योपकार इति ॥ २२ ॥
टी० – परत्वापरत्वे इत्यादि । प्रशंसाक्षेत्रकालभेदात् त्रैविध्यम्, तत्र प्रशंसायाम्, परो धर्मः सर्वोत्तमत्वात् प्रशस्तः सकलमङ्गलनिलयत्वात् प्रकर्षकाष्ठागत इति, अपरोऽधर्मो जघन्यः स्वल्पगुणत्वात् निकर्षावस्थाप्राप्तः, तथा परं ज्ञानं यथावस्थितवस्तुवेदित्वात्, अपरमन्यथा, तच्चाज्ञानमेवाप्रशस्तत्वात् कुत्सितम सम्यग्दृष्टेरिति । क्षेत्रकृते इत्यादि, एकस्यां दिश्येकदा विप्रकृष्टो दूरवर्ती परः प्रत्यासन्नोऽपरः सन्निकृष्ट इत्यर्थः दिशः प्राधान्यमविनाभावित्वात् कालोऽप्यत्राक्षिप्यते, कालैकत्वेऽप्यपदेशो भवत्येक दिग्व्यवस्थितयोः परोऽपर इति । कालकृते इत्यादि, व्यतिकरेणापरस्मिन् परं परस्मिँश्चापरमिति यन्निमित्ते प्रत्ययाभिधाने स कालः । तद्यथा- - पोडशवर्षात् परो वर्षशतायुः वर्षशतायुषोऽपरो द्विरष्टवर्षायुः, प्रशंसाक्षेत्रकतपरत्वापरत्वे चैते न भवतः, लुब्धकादावपि दर्शनात् यस्माल्लुब्धकेऽपि देशकुलजातिविद्या
"
१' सङ्कीर्णतोऽनिष्टं' इति क ख पाठः ।
ज्ञानमिति ' इति क-ख-पाठः ।
४५
Jain Education International
२
4
३५३
जातीयकत्वादेव' इति ग-पाठः ।
For Private & Personal Use Only
३ धर्मः अपरं
"
www.jainelibrary.org