________________
३५४
तत्वार्थाधिगमसूत्रम्
[ अध्याय: ५
"
परिहीणे परत्वापरत्वप्रत्ययाभिधानसम्भवात् न च बन्धुजनापेक्षे, एकाकिन्यपि भावात्, न तपश्चरणालम्बने, अतपस्केऽपि दर्शनात्, न कर्मसंस्कारापेक्षे, तयोरनधिकारात्, न चादित्यानिमित्ते, तत्रापि दृष्टत्वात् परोऽभियोग्यः अपर आदित्यः परः सविताऽपरोऽभियोग्य इति, अतः सामर्थ्यात् कालकृते तयोर्विशेषणार्थमिदमुच्यते - प्रशंसाक्षेत्रकृतेऽपि परस्वापरत्वे वर्जयित्वेति, वर्तनादयः सर्वे कालकृताः कालस्यापेक्षाकारणस्यानुग्रह उपकार इति सूत्रार्थः ॥ एवं चायं यत्परत्वापरत्वे सूत्रभेदेन समस्य निर्दिष्टे सूरिणा तदवगमकं न प्रशंसाक्षेत्रकृतयोरत्र परिग्रहः, वर्तना परिणामः क्रियाश्च द्रव्यस्वभाव: कालापक्षो निरदेश, परत्वापरत्वे चावधित्वेन काललिङ्गमिति ॥ २२ ॥
भा०
० - अत्राह उक्तं भवता ( अ० ५, सू० १९ भाष्ये ) - शरीरादीनि पुगलानामुपकार इति । पुद्गला इति च तन्त्रान्तरीया जीवान् परिभाषन्ते । स्पर्शादिरहिताश्चान्ये । तत् कथमेतदिति । अत्रोच्यते ॥
टी० - अत्राह-उक्तं भवतेत्यादिसम्बन्धग्रन्थः । अत्र प्रस्तावे परोऽभिधत्ते - प्रतिपादितं भवता शरीरादयः सुखादयश्च पुद्गलानामुपकार इति । तन्त्रान्तरीयाश्च मायासूनवीयाः पुद्गला इत्यनेन शब्देन जीवान् परिभाषन्ते - पुद्गलशब्दं जीवेषु सङ्केतयन्ति व्यवहारसि - द्ध्यर्थमिति ॥ ननु च तेषां जीव एव नास्ति, कथं तद्विषयं पुद्गलध्वनिं परिभाषेरन्निति ? । उच्यते - अस्त्यार्यसम्मितीयानामात्मा, सौत्रान्तिकानां तु चित्ततद्युक्तसन्ततौ तत्पुद्गलप्रज्ञप्तिः, चित्तसन्ततौ वेदनासंज्ञा चेतनादिधर्मयुक्तायां चक्षुरादिसहितायां च चिंत्तेनान्योन्यानुविधानात् इत्येषा चित्ततद्युक्तानां धर्माणां सन्ततिरहङ्कारवस्तुत्वादापुद्गलशब्दार्थः त्मेत्युपचर्यते, तथा पुनः पुनर्गत्यादानात् पुद्गल इत्युपचर्यते, योगा
चारणां तु विज्ञानपरिणामः पुद्गलः । यथाऽऽह -
"आत्मधर्मोपचारो हि, विविधो यः प्रवर्तते । विज्ञानपरिणामोsसौ परिणामः स च त्रिधा ।। "
एवं तन्त्रान्तरीयैः पुद्गलो जीव उक्तः, त्वया पुनः शरीराद्युपकारिणः पुद्गला इत्युच्यते तदेतत् कथं विप्रतिषिद्धत्वादिति प्रश्नयति ॥ नन्वनुपपन्नः संशयः, पूर्वमुक्तमेव- रूपिणः पुद्गलाः (अ० ५ ० ४ ) इति, न च रूप्यात्मा प्रतीत इति उच्यते रूपशब्देन तत्र मूर्तिरुक्ता सा च मूर्तिरन्यैरसर्वगतद्रव्यपरिमाणमिष्यते, यथा मनः, तच स्पर्शादिरहितम्, एतन्निरासार्थमिदमवश्यं वक्तव्यं भवति सूत्रं - स्पर्शादियुक्ता मूर्तिः, तथा चतुखिब्बे
१ धर्मादयस्तावदरूपिणो लक्ष्याश्च गत्यादिद्वारेण जीवानां च लक्षणमुपयोग इति प्रागेवोक्तमिति पुद्गललक्षणानि वक्त कामः परविप्रतिपत्तिनिरासाय शङ्कते, यद्वा संघातभेदौ वक्तुकाम आरभते हेतुनाख्यातुं तत्राह ।
२
' चित्तेऽन्योन्या ' इति क-ख-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org