________________
३५२ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ५ जायाः, क्षणं क्षणद्युतिदीपिकाप्रकाशिताशामुखासु क्षणदासु परिभ्रमत्खद्योतकीटकासु सञ्चरन्ति मसृणमभिसारिकाः, पङ्कबहुलाः पन्थानः कचिज्जलाकुलाः कचिदविरलवारिधाराधौतहारिसैकताः नभोनभस्ययोमोसयोः ॥
तथा शरदि-दिनकृतो मयूखाः पङ्कमाश्यानयन्तः प्रतापमुग्रतरमातन्वते, विनिद्राम्भोजकुमुदवनानि सरांसि सहंससारसानि स्फटिकमणिभित्तिविमलवारिपूर्णानि, कल्हारकुवलयामोदवाहिनो गन्धवाहाः सप्तच्छदकुसुमरजोधूलिधूसरितवपुषः कलगुञ्जिनो मधुलेहिनः काष्ठाः कृतबन्धुजीवकावतंसाः, सञ्जातदोस्तथोक्षाणो मत्तध्वानगम्भीरमुन्नदन्तः श्लिष्टमृत्तिका
खण्डमण्डितशृङ्गकोटयः परिष्वष्कन्ते, कृषीवलहृदयहारीणि हरिणकशरवर्णनम् दम्बकदशनालूनतटस्तम्बाग्राणि कैदार्याणि समधिगतपाककलमानि
कलमगोपिकाच्छ्रत्कारवित्रासितशुकमण्डलानि नितरां चकासति, तुषारदीधितेर्धवलयन्तो मुखानि हरितामभीशवः कामिनां प्रमोदमन्तःकरणेषु शनकैः समेधयन्ति प्रसभमिषोर्जयोर्मासयोः ॥ तथा वेलानियमसमधिगतपाटवानि प्रातः कुशेशयकोशजालानि भास्वत्करसम्पर्काद्
विकासमाददते, कुमुदतीनाथकिरणकलापपरामृष्टानि च कुमुदकुवलयवेलानियमः कुङ्मलानि निष्ठयूतसुरभिपरिमलं दलन्ति, कोशातकीपुष्पपटप्राव
रणाः सन्ध्यासु ग्रामवृत्तयः सुरभिगन्धोद्गारिणः कामिजनजनितसम्मदास्तरुण्य इव बहलाङ्गरागा विराजन्ते, जलधिरपि वेलानियममनुवर्तमानः शिशिरकिरणोदये वलिततुङ्गवीचिबाहुभिरम्भोधरध्वानगैम्भीरव्याहारमेलाफलपरिमलपिशुनामालम्बते वेलावधूम्, कोशिकशकुन्तयश्च रजनीषु द्राधीयसा भयानकध्वनिना स्थायं स्थायमारटन्ति, प्रतानितग्रीवाः कृकवाकवोऽपि वेणुपर्यन्तन्यस्तच्छित्वरकृताधिवसतयो दीर्धेः कलगम्भीरध्वनिभिरावेदयन्ते यामच्छेदान्, वनस्पतयश्च केचिदाबद्धपत्रसङ्कोचाश्चिराय नियतवेलासु निद्रां भजन्ते ॥
सोऽयमृतुविभागो वेलानियमच चित्रपरिणामः कारणं नियामकमन्तरेणानुपपन्नः सकलकारणकलापसनिधोंने सत्यप्यनासादितोपजनत्वात्, अनेकशक्तियुक्तकालद्रव्यापेक्षस्तु प्रादुरस्ति, तस्मात् प्रतिविशिष्टकार्यानुमेयः कालोऽणुवत्, अन्यथा नियामकहेत्वभावे युगपदेते भावा भवेयुरपरायत्तत्वात्, अतः प्रतिनियतकालभावित्वादमीषां परिणामानामस्त्येकमनेकशक्तिकलापान्वितं कारणम्, ताश्च शक्तयः कदाचिदेव स्वकार्यनिष्पादनाय प्रवर्तन्ते समासादितपरिपाका न सर्वदेति । अथ कदाचिदेवमधिगच्छेत् कश्चित् खरविषाणशक्तिरसौ ताहशीति, तदयुक्तम्, अवस्तुत्वापत्तेः, प्रतिवाद्यप्रसिद्धेश्चेति ॥
भा०—क्रिया गतिः । सा त्रिविधा-प्रयोगगतिः विस्रसागतिः मिश्रिकेति॥ १ धारधीत ' इति क-ख-पाठः। २ 'मभीषवः' इति ग-पाठः । ३ नारिण्य ' इति क-पाठः । ४ 'गभीर' इति क-ख-पाठः। ५'धानेन ' इति क-ख-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org