SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ सूत्रं २२ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् तथा शिशिरे – अतिदुर्भगशशाङ्ककिरणे परिपाकसुरभिफलसम्पद्विनम्यमानशाखाभराः फलार्थिभिः शिशुकदम्बकैरनुगततला बदरीतरवः तुहिनशिलाशकल विशद कुन्दमालती कुसुमवासवाहिनो मारुताः, प्रियङ्गुरोधप्रसवसनाथानि दिङ्मुखानि, प्रलीनाः शिशिरवर्णनम् पङ्कजाकराः सायामा यामिन्यः, कश्मीरजागुरुगन्धाढ्यगर्भगेहशायिनः सुखिनस्तपस्तपस्यनाम्नोर्मासयोः ॥ तथा वसन्ते- समन्ततः किञ्चिद्विभाव्यमानकुसुमाः कुन्दयष्टयः केसरतिलककुरबकशिरीष कोल्लप्रसून जृम्भमाणपरागभाजः समीरणाः तरुणजनहृदयहारिणः, सहकारमञ्जरीरजःपुञ्ज पिञ्जरितविग्रहाः कुसुमासवपानवशगताः सहचरीपक्षपातैराच्छुरन्तः कलगिरी बद्धमण्डलाः कातरजनान् रागपरिवृतः कुसुमधनुषो गोचरीकुर्वन्तः परिपतन्ति वनावसन्तवर्णनम् नि मधुपाः, परभृतकुलकलनिनाद कोलाहलप्रतिबध्यमानगमनाः पदे पदे प्रस्खलन्तः पलाशवनानि कुसुमभरभाञ्जि ज्वलदनलकूटानीव पुरः प्रेक्ष्यमाणा मलयवायुवेगावधूतचम्पकरजः पटलैरवकीर्यमाणलोचनपुटाः प्रत्यावर्तन्त एव पथिकसार्थाः, परिणतबिम्बफलच्छविभिरशोक पुष्पप्रकरैरुपशोभिताश्च सर्वतो दिशां भागा मासयोमधुमाधवाभिधानयोः ॥ तथा निदाघसमये - दहनमिव किरणनिकरैः किरन् किरणमाली भुवस्तलमास्तीर्णाङ्गाप्रकरमिव करोति, चीरीविरावद्राघीयांसो दिवसाः कथञ्चिदपवाद्यन्ते पथिकजनैः, आवाहोपकण्ठप्ररूढडुमच्छायाधिश्रयितश्रान्तकार्पटिकधोरणध्वानपरिपूरिता दिगाभोगाः, चन्दनपङ्काङ्गरागपरिपाण्डुराः किङ्करकरोत्क्षिप्ततालवृन्तश्वसनशीतलितशरीराः शिग्रीष्मवर्णनम् शिरेषूपवनेषु सरित्सरसीतीरेषु च विविधधारागृहान्तर्गता भोगिनो निरस्तधर्मप्रसरमभिरमन्ते, करिदशनशकल धवलमल्लिकाको रकबहलपरिमलहारिणः परिमलितपाटलप्रसवाः सायं प्रातश्च पवना विलासिनां मदनमादीपयन्तः सुरभयो विचरन्ति, अरण्यान्यः कठोरकठिनकन्धरवराहदंष्ट्राकोटि विलेखोत्खातमुस्तादल सुगन्धयः करिमहिषयूथावगाढपल्वलाः कलभचीत्कारपूरितदश दिशो मृगतृष्णाभिरारचिंतसरस्तरङ्गमालाभिरिव विप्रलब्धमुग्ध हरिणव्रजाः शुचिशुक्राभिख्ययोर्मासयोः ॥ ३५१ " तथा वर्षासु - सौदामिनीवलयविद्योतितोदराभिनवजलधरपटलस्थगितमम्बरमारचितपाकशासनचापलेखमासारधाराप्रपातशमितधूलिजालं च विश्वम्भरामण्डलम् अङ्गसुखाः समीराः कदम्बकेतकरजः परिमलसुरभयः, स्फुरदिन्द्रगोपकप्रकरशोभिता शाद्वलवती भूमिः, कूलङ्कषजलाः सरितः, विकासिकुटजप्रसूनकन्दलीशिलीन्ध्रभूषिताः पर्वतोपवर्षावर्णनम् त्यकाः, पयोदनादाकर्णनोपजाततीव्रोत्कण्ठाः परिमुषितमनीषा इव प्रवासिनः, चातकशिखण्डिमण्डलमण्डूकध्वनिविषम विषवेगमोहिताः पथिक १' कश्मीरगुरु' इति क ख पाठः । २ ' केलगिरौ' इति क ख पाठः । ३' परिवृतः ' इति ग-पाठः । ४ ' अरणान्यः ' इति ग-पाठः । ५ ' चितस्तरङ्ग ' इति क ख पाठः । Jain Education International - For Private & Personal Use Only www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy