SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ ३५० तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ५ रिदमभिधातुं पार्यते-कालाश्रया वृत्तिरिति ? अवधृते हि काले तदाश्रया वृत्तियुज्येत ॥ ननु चात्मादयोऽप्यनवधृतखरूपा एव साक्षाद् बुद्धिसुखदुःखादिभिः कार्यैरुभय निश्चितैरधिगम्यन्ते, दृश्यावामी, न चान्यथोपपद्यन्ते, तद्वदेव वर्तना सकलवस्तुव्युपाश्रया, अतोऽस्ति कार्यानुमेयः कालः पदार्थपरिणतिहेतुः, लोकप्रसिद्धाश्च कालद्रव्याभिधायिनः शब्दाः सन्ति, न वस्तुक्रियामात्राभिधायिनः । यथाऽऽह-"युगपदयुगपत् क्षिप्रं चिरं चिरेण परमिदमपरमिदमिति च, वत्स्यति नैतद् वय॑ति वर्तते तद् वृत्तमपि वर्तत इदमन्तर्वर्तत" इति, कालापेक्षमेव आप्ता यत् सर्वे ब्रुवन्ति, तसान्ननु सर्वेषां मतः कालः, ह्यः श्वोऽद्य सम्प्रति परुत् परारि नक्तं दिवैषमः प्रातः सायमिति कालवचनानि कथं युक्तान्यसति काले ? । तस्याश्च वृत्तेः कालापेक्षायाः कालस्वरूपाया वा भाष्यकारः शब्दानेकार्थान् कथयति-वर्तनेत्यादि । वर्तनोक्तलक्षणा, उत्पत्तिरात्मलाभः, स्थितिरप्रच्युतिरिति किञ्चिद्भेदा वर्तनैवोच्यते, निर्विभागः कालः समयः स च प्रथम इति वस्तूत्पत्त्या व्यवच्छिन्नस्तदाश्रया समयपरिणतिस्वभावेत्यर्थः ॥ __ भा०-परिणामो द्विविधः-अनादिरादिमांश्च । तं परस्ताद् ( अ० ५, मू० ४२ ) वक्ष्यामः ॥ टी०-परिणामो द्विविध इत्यादि । द्रव्यस्य स्वजात्यपरित्यागेन परिस्पन्देतरप्रयोगजपर्यायस्वभावः परिणामः, तद्यथा-अङ्कुरावस्थस्य वनस्पतेमूल-काण्ड-त्वक्-पत्र स्कन्ध ___ शाखा-विटप-पुष्प-फलसद्भावलक्षणः परिणामः, आसीदङ्कुरः सम्प्रति परिणामस्वरूपम् स्कन्धवानैषमः पुष्पिष्यतीति, पुरुषद्रव्यस्य वा बाल-कुमार-युव-मध्यमा यवस्थापरिणामसद्भावलक्षणः, स द्विविधः, अविद्यमानादिरनादिरमूर्तेषु धर्मादिषु, मूर्तेषु पुनरादिमानभ्रेन्द्रधनुरादिषु स्तम्भकुम्भादिषु च । चशब्दोऽवधारणार्थः । परिणामो द्विविध एव, तं चाध्यायपरिसमाप्तौ (सू० ४१ ) वक्ष्यामः तद्भावः परिणाम इति, स च वस्तूनामृतुविभागवेलानियमकृतः, तत्रर्तवो हेमन्त १ शिशिर २ वसन्त ३ ग्रीष्म ४ वर्षा ५ शरत्संज्ञाः ६ कालस्यैकस्य शक्तिभेदाः प्रतिविशिष्टकार्यप्रसवानुमेयाः । तद्यथाहेमन्ते हिमानीनिपातप्रम्लानानि वृन्ताक कार्यासीवनानि । पथिकाः सङ्कोचितपाणयः कणदन्तवीणिकाः कम्पमानगात्रयष्टयः प्रत्यग्निशलभा इवापतन्तो लक्ष्यन्ते । वायवश्व तुषारलेशसेगतोऽतिशयशिशिराः शरीराण्यायासयन्तः प्राणभाजामावान्ति । प्रियतमापरिष्वङ्गदुर्लोलितेषु युवसु प्रसरमलभमानाः कुङ्कुमारुणाः प्रियतामुपनमन्त्यंशव: सहस्ररहेमन्तवर्णनम् श्मेर्जीवलोकस्य । अनवरतशीतपातजनितव्यथाः काष्ठशकलानि डिम्भाः समाहृत्यैकतो हुतभुजमादीप्य तापमासेवन्ते प्रसारितपाणयः सहःसहस्यसंज्ञयोर्मासयोः॥ 'यज्यते' इति क-ख-पाठः। २.सर्वेषामभिमतः' इति ग-पाठः। ३'कासी' इति क-ख४'कणद्दवदन्त 'इति ग-पाठः । ५. सङ्गिनोऽतिशय ' इति क-ख-पाठः। ६ ‘ण्यावासयंतः' इति ख-ग-पाठः । '•भाभिः समा' इति क-पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy