________________
सूत्र २२] स्वोपज्ञभाष्य-टीकालङ्कृतम्
३४९ विति न दोषः, सुखादिदृष्टान्ताश्च पूर्ववद् वाच्याः ॥ अत्र च केचिदाचक्षते-विरोधासम्भवाद् वर्तनादिपदत्रयसमासः, अपरे पुनरसमस्तान्येवाधीयते, परत्वापरत्वयोः पुनः समास एव, अन्योन्यापेक्षत्वात्, वर्तनाग्रहणमादौ पूर्वापरनिरपेक्षप्रत्ययाभिधानहेतुत्वानिदर्शनार्थत्वात् । तदनु परिणामग्रहणं, क्रियाग्रहणं वतनादनिां तज्जातीयत्वात् । तदनु परत्वापरत्वे विशिष्टलिङ्गत्वात् प्रशंसाक्षेत्रकृतव्युदासार्थम् । उपकारानुकर्षणार्थश्चशब्दः॥
भा०-तद्यथा-सर्वभावानां वर्तना कालाश्रया वृत्तिः । वर्तना उत्पत्तिः, स्थितिरथ गतिः प्रथैमसमयाश्रयेत्यर्थः ॥
____टी०-तद्यथा-सर्वभावानामित्यादि भाष्यम् । तद्यथेत्यनेन वर्तनास्वरूपम् वर्तनादीनां सकलभावव्यापितां दर्शयति । तत्र वर्तनैव तावद् भाव्यते
__वर्तना कालाश्रया वृत्तिरिति, वर्तन्ते स्वयमेव पदार्थास्तेषां वर्तमानानां प्रयोजिका कालाश्रया वृत्तिः, वर्त्यन्ते यया सा वर्तना । 'ण्यासश्रन्थो युच्' (पा० अ० ३, पा० ३, सू० १०७)। अथवा सैव कालाश्रया वृत्तिवेतनशीलेति, 'अनुदात्तेतश्च हलादेः' (पा० अ०३, पा० २, मू० १४९ ) इति युच् । वृत्तिर्वर्तनं तथाशीलतेति, सा च वर्तना प्रतिद्रव्यपर्यायमन्तीतैकसमयस्वसत्तानुभूतिलक्षणा उत्पाद्यस्येतरस्य वा भावस्य प्रथमसमयसंव्यवहारोऽनुमानगम्यस्तण्डुलादिविकारवदग्न्युदकसंयोगनिमित्ता विक्रिया प्राथमिक्यतीतानागतविशेषविनिर्मुक्ता, वर्तते पाकः अस्य वा भावाऽनुसमयस्थितेर्वर्तना प्रतीता, सा चातिनिपुणपुरुषबुद्धिगम्या । यथाऽऽह
"बिसस्य बाला इव दह्यमाना, न लक्ष्यते विकृतिरिहाग्निपाते ।
तां वेदयन्ते मितसर्वभावाः, सूक्ष्मो हि कालोऽनुमितेन गम्यः ॥" ननु च सवितुरुदयेन वर्तमानेनोपलक्षिता भावानां प्रतिविशिष्टा क्रियैव वर्तते इत्यावेद्यते कोऽन्यस्तव्यतिरिक्तः काल इति, तथा ह्यः श्व इत्यतीतानागतोदयलक्षणा अध्नमण्डलभ्रमणानुमेया वस्तुक्रियेवोच्यतेऽवृतद् वर्तिष्यत इति । यथा चोक्तम्-नृलोके, तत्कृतः कालो विभागः (अ० ४, सू० १४, १५) इति, अत्रोच्यते, प्रागुत्पतद्भिरेवास्माभिरिदमुक्तम्-धर्मादिद्रव्यपरिणतिमात्रं कालस्तदन्यो वा, तत्र प्रथमपक्षे सिद्धसाध्यता, तदन्यपक्षेऽपि न दोषः, आदित्यगत्युपलक्षिता नैषा वस्तुक्रिया वर्तत इति, तद्गतावपि सद्भावाद्, वर्तते व्रज्या सवितुर्यथा आकाशप्रदेशनिमित्तेति चेत्, तदप्यसमञ्जसम्, तां प्रत्यधिकरणभावात् स्थालीवत्, कथं पुन
१ यदि च तिर्यग्लोकवृत्तिपदार्थानां चन्द्रसूर्यादिगतिक्रिययोपकृतिः तदा स्पष्ट एवोपकारस्तस्य तिर्यग्लोके, सुरलोकादौ न सूर्यादेगेतिक्रिया न च तया तस्योपकार इति स्पष्ट एवान्यत्र तदनुपकारः, प्रागुक्तमपि च यदुतात्रत्येनैव कालेनान्यत्र व्यवहारः, परमनिरुद्धः समयोऽपि सूर्यादिक्रियाव्यङ्ग्यदिनादेः परमो लव एव, सूर्यादिगतावपि प्राचीना तद्वतिहतुरेव, एवंच तियेग्लोक एव तस्य वृत्तियुक्ता, कथमन्यथा लोकालोकयोक्तनादिसद्भावात् न स सर्वत्र, एवं च पर्यायताऽपि तस्य युज्यत एव ।
२ प्रथमसमाश्रयेत्यर्थः' इति क-ख-पाठः । ३ ‘ण्याश्रयो युच् ' इति ग-पाठः। ४ 'वेद्यन्ते ' इति ग-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org