________________
३४४
तत्त्वार्थाधिगमसूत्रम्
[ अध्याय: ५
परिसमाप्तौ तदसम्भवान्मरणंवचनम्, प्रकृतमुपग्रहवचनमनादृत्य यत् पुनरुपग्रहग्रहणं तद् विशिष्टार्थप्रतिपत्त्यर्थं, शरीराद्याकारेण साक्षात् कुर्वन्त्युपकारमात्मनः पुद्गलाः, अत्रं पुनरात्मनः सुखाद्याकारेण परिणममानस्योपग्रहे वर्तन्ते पुद्गला इति ।
भा०- सुखोपग्रहो दुःखोपग्रहो जीवितोपग्रहश्च मरणोपग्रहश्चेति पुद्गलानाकारः ॥
टी० - सुखोपग्रह इत्यादि भाष्यम् । बाह्यद्रव्यसम्बन्धापेक्षसद्वेद्योदयात् संसार्यात्मनः प्रसादपरिणामः सुखम्, इष्टदारापत्यखगनुलेपनान्नपानादिद्रव्योपजनितमिति विस्तरः, तदेव च सुखमुपग्रहोऽनुग्रहः पुद्गलानां निमित्ततया परिणतावात्मनः, एवं दुःखादिष्वपि योजनीयम्, असद्योदयादात्मपरिणामो बाह्यद्रव्यापेक्षः सङ्केशप्रायो दुःखं, भवस्थितिनिमित्तायुर्द्रव्यसम्बन्धभाजः पुरुषस्य प्राणापानलक्षणक्रियाविशेषाव्युपरमो जीवितं, तदशेषोपरतिर्म रणम्, कथं मरणमात्मोपग्रह इति चेत्, निर्विण्णस्य पुरुषस्य तत्प्रियत्वाद् विषादिद्रव्यसम्बन्धे सत्या - युषो यौगपद्येनोपभोगोदयात् कण्टकवेदनावत् ॥
भा०—– तद्यथा-इष्टाः स्पर्शरसगन्धवर्णशब्दाः सुखस्योपकाराः । अनिष्टा दुःखस्य । स्थानाच्छादनानुलेपन भोजनादीनि विधिप्रयुक्तानि जीवितस्यानपवर्तनं चायुष्कस्य । विषशस्त्राग्यादीनि मरणस्य, अपवर्तनं चायुष्कस्य 11
टी० – तद्यथेत्यादिना प्रत्येकमुदाहरणं सुखादीनां दर्शयति- स्पर्शादयः केचित् कदाचिदाशयवशाज्जन्तूनां वल्लभाः सन्तः सुखमात्मपरिणामस्वभावमुपकुर्वन्ति । कर्मणि षष्ठी द्रष्टव्या । त एव चानिष्टा द्वेष्याः सन्तः स्वाशयोत्प्रेक्षया दुःखस्योपकुर्वन्ति । तथा चाह"तानेवार्थान् द्विषतस्तानेवार्थान् प्रलीयमानस्य ।
निश्चयतोऽस्यानिष्टं न विद्यते किश्चिदिष्टं वा ।। " - प्रशम० श्लो० ५२
अतः स्वचेतोविकल्पापेक्षमिष्टत्वमनिष्टत्वं वा स्पर्शादीनाम्, तथा स्नानादयो विधिप्रयोगाज्जीवितस्य प्राणधारणलक्षणस्योपकारकाः, विधिप्रयोगो देशकालमात्रासात्म्यद्रव्यगुरुलाघवस्वबलापेक्षः, जन्मान्तरप्रतिबद्धस्य चायुषोऽनपवर्तनम्, अपवर्तनं तु दीर्घस्यायुषो ऽध्यवसा यादिविशेषसाचिव्यादल्पतापादनं जीवितसंवर्तनमित्यर्थः । अनुग्राहक हेतुसन्निधानात् तु तावन्मात्रतैव, सुबद्धत्वात्, पवनश्लेषवत्, अनपवर्तनमिति, बद्धस्पृष्टनिहितनिकाचितचतुष्करण
१ 'मरणं' इति क- पाठः ।
२ विप्रियस्य दुःखमरणकारितया पुद्गलानामुपयोजनमध्यक्ष सिद्धमेव, स्वरूपख्यापनमेतत् तेन नैतत्कार्यता ।
३ गतिस्थित्युपग्रहावित्यत्र समस्तत्वादुपग्रहस्य न तस्यानुवृत्तिः सन्नियोगेतिन्यायात्, उपकार शब्दस्त्वत्रापि पुद्गलानामुपकार इति अनुवर्त्यत एव तत आवश्यकं उपग्रहग्रहणं, अन्यच्च सुखादीनि न पुद्गलरूपाणि किन्तु तज्जन्यानीति युक्तमुपग्रह इति, भावि भाष्यमपि तथैव ।
४ तस्यापि पौद्गलिकत्वात् तद्धारणावधिकत्वादेव जीवितस्येति ।
५ पवनेन - वायुना शुष्यमाणः श्लेषः पवनश्लेषः, स हि गाढतमो न च शक्यते उद्वेष्टयितुम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org