________________
सूत्र २० ]
स्वोपज्ञभाष्य-टीकालङ्कृतम्
३४३
अतो व्यवच्छिनत्ति नान्य इति । यत् तु तेषां स्वनीडाभिसर्पणं कुमिपिपीलिकादीनां तण्डुलकणश्यामाकबीजादिसंङ्ग्रहणवन्मेनोव्यापारमन्तरेणैव तदवग्रहपाटवात् तादृशी लब्धिरेव सा, न पुनरीहादिज्ञानभेदविचारयोग्यो द्वीन्द्रियादिः ।
कथं पुनरात्मा शरीरादियोग्यान् पुद्गलानादत्ते कथं वा परस्परेण ते संहतास्तिष्ठन्ति न विशीर्यन्ते इत्याक्षिप्ते आह
०–
भा० - वैक्ष्यते हि - सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलानादत्त इति ( अ० ८, सू० २ ) ॥ १९ ॥ किञ्चान्यत् —
टी० - - वक्ष्यते हीत्यादि । यस्मादभिधास्यतेऽष्टमेऽध्याये बन्धलक्षणं सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलानादत्त इति, कषायाः क्रोधादयः सह तैः सकषायस्तस्मात् प्रत्ययात् कषायाख्यादात्मा ज्ञानावरणादिकर्मयोग्यान् सर्वात्मप्रदेशैनकर्मयोग्यांश्च पुद्गलानादत्ते,
आह च
65
ऊष्मगुणः सन्दीपः, स्नेहं वर्त्या यथा समादत्ते । आदाय शरीरतया परिणमयति चापि तं स्नेहम् ॥ तद्वद् रागादिगुणः, स्वयोगवर्त्यात्मदीप आदते । स्कन्धानादाय तथा, परिणमयति ताँश्च कर्मतया ॥ "
तस्मात् शरीराद्याकारेणोपकारिणः प्राणिनां पुद्गला एव न प्रधानविज्ञानस्वभावेश्वरनियतिहठ पुरुषकालादयः शरीराद्याकारपरिणतिभाजो नियुक्तिकत्वादिति ॥ १९॥
एष तावत् पुद्गलकृत उपकारो जीवानां शरीरादि, अधुना निमित्तमात्रताप्रदर्शनार्थ सम्बध्नाति - किञ्चान्यदिति, पूर्वोपकारापेक्षमुच्यते । आकारान्तरेणापि पुद्गलानामुपकारकत्वं निमित्तमात्रतयेत्याह
सूत्रम् - सुखदुःखजीवितमरणोपग्रहाश्च ॥ ५ – २० ॥
डी० - चशब्देन पुद्गलानामुपकार इत्यनुकृष्यते । शरीरादिसूत्र विन्यासं कृत्वा प्राक् किमर्थमिदं विभागेनाधुना भण्यते १ । उच्यते - सुखादीनामुर्देयापेक्षत्वात् प्राच्यानां ग्रहण मात्र विषयत्वाद् विभक्तिरिति, द्वन्द्वपूर्वः समानाधिकरणस्तत्पुरुषः, सुखग्रहणं प्राक् तदर्थं चेष्टादर्शनात्, तदनन्तरं दुःखवचनं तत्प्रतिपक्षत्वात्, जीवतस्तदुभयदर्शनात् तदन्ते जीवितग्रहणं, कर्मोपभोग
Jain Education International
१ 'संग्रहं तन्मनो' इति क-पाठः ।
२ विशिष्टमनोव्यापारमपेक्ष्यैतत् हेतुवादसंज्ञा तु तेषामस्त्येव तत्प्रयोजिका । ईहादि चात्र संप्रधारणरूपं दीर्घकालीनस्मरणादिरूपं वा, प्राप्तेन्द्रियोहादेस्तु तेषां सद्भावोऽविरुद्धः ।
३ सिद्धालयेऽपि पुद्गलसद्भावात् किं न सिद्धानां शरीरादितया पुद्गलोपकार इत्याह
४ सातवेदनीयोदयादौ अपेक्षाकारणत्वात् इति भावः । ५ शरीरादौ तु परिणामिकारणं पुनला इति प्रहणेत्यादि । ६ 'ग्रहणविषयत्वाद्' इति क-ख- पाठः ।
For Private & Personal Use Only
www.jainelibrary.org