________________
सूत्र २०] स्वोपज्ञभाष्य-टीकालङ्कृतम्
३४५ सगृहीतकर्मणामुपक्रमाभावाज्जीवितसंवर्तनाभाव इत्यर्थः । विषशस्त्राग्निमन्त्रप्रहरणादयो मरणस्य-जीवितोच्छेदलक्षणस्योपकारकाः पूर्वोपात्तायुषश्चापवर्तनकारिणः, कर्म हि पौद्भलिकमिष्टं भेत्तुं बहिः पौद्गलं (पुद्गलैः १) शक्यम् । आह च
"सोपक्रममायुष्क, वेदनयाऽऽर्तस्य मूर्च्छतो जन्तोः।। बन्धप्रायोग्याभ्यां, विगच्छति स्नेहरौक्ष्याभ्याम् ॥ १॥ आर्या निरुपक्रमं तु न तथा-ऽऽयुष्कं दृढसंहितं यदिष्टं तत् । नन्वग्न्याद्यैरनुप-क्रम्यं कंकटुकमपरान्नम् ॥ २॥ आयुष्कस्यावयवा, बन्धनमुक्ता जटन्ति ते तस्मात् । आद्रोद् वस्त्राद् यद्वत् , प्रशोष्यमाणाज्जलावयवाः ॥३॥ प्राणाहारनिरोधा-ध्यवसाननिमित्तवेदनाघाताः।
स्पशाश्वायुर्भदे, सप्तैते हेतवः प्रोक्ताः ॥४॥" भा०-अत्राह-उपपन्नं तावदेतत् सोपक्रमाणामपवर्तनीयायुषाम् । अथानपैवायुषां कथमिति ? । अत्रोच्यते
टी-अत्राहेत्यादिना ग्रन्थेनाशङ्कते. सोपक्रमायुषामनशनरोगादिवाधाभिरुपक्षीणायुषामपवर्तनीयायुषां च भृगुपतनोद्वन्धनादिभिरपवर्तमानायुषामुपकुर्वन्तु नाम पुद्गलाः, ये पुनरनपवर्तनीयायुषो भवन्त्यौपपातिकचरमदेहोत्तमपुरुषासङ्ख्येयवर्षायुषस्तेषां कथं जीवितमरणोपग्रह इत्याक्षिप्ते अत्रोच्यत इत्याह___ भा०–तेषामपि जीवितमरणोपग्रहः पुद्गलानामुपकारः । कथमिति चेत् , तदुच्यते ॥ .टी. तेषामपीत्यादि । तेषामप्यनपवर्तनीयायुषां जीवितोपग्रहो मरणोपग्रहश्च पुद्गलजालायत्त एव, पुद्गलकृत एवोपकार इतियावत, कथमिति चेत्, आशङ्कते, केन प्रकारेणानपवायुषामुपकुर्वन्ति पुद्गलाः, एवं मन्यते-न तेषामायुर्वर्धयितुं शक्यम्, न हासयितुम् , अतः कमुपकारं पुद्गलाः कुर्युरिति तदुच्यते इत्याह
भा०—कर्मणः स्थितिक्षयाभ्याम् । कर्म हि पौद्गलमिति । आहारश्च त्रिविधः सर्वेषामेवोपकुरुते । किं कारणम् । शरीरस्थित्युपचयबलवृद्धिप्रीत्यर्थं त्याहार इति ॥२०॥
१ अपवर्तनीयायुषां निरुपक्रमत्वाभावात् सोपक्रमेत्यादि। २ आयुषः परानुपग्राह्यत्वात् स्वभावतस्तेषां मरणं, न जातु तेषां पुदगलोपग्रहो नामेति शङ्कते । ३ शीघ्रमायुःक्षयप्रतिपादनाय भेद इत्याशयः। ४ कर्मशब्देनायुः. कमैव ग्राह्य, प्रकरणात् जीवितमरणयोः, अनपवर्तनीयायुषामपि नायुरन्तरेण जीवितं तत्क्षयमन्तरा च मरणमिति युतमुक्तं तेषामपीत्यादि ।
४४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org