________________
३४० तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ५ सत्यपि संयोगजन्यत्वे न विवक्ष्यते, अत एव च तल्लक्षणमाकाशस्य, यस्माद् व्योमैवासाधारणकारणतया तथोपकरोति,अतो द्रव्यान्तरसम्भविनोपकारेणातीन्द्रियमप्यनुमेयात्मवद् धर्मादिवद् वा, यथा पुरुषहस्तदण्डसंयोगभेर्यादिकारणः शब्दो मेरीशब्द इति व्यपदिश्यते यवा
ङ्कुरश्चासाधारणकारणत्वादेवमवगाहोऽप्यम्बरस्य प्रतिपत्तव्यः । यदप्याहुः-अवगाहतेऽणुरवगाहते जीव इति सामानाधिकरण्यदर्शनादवगाहकद्रव्यविषय एवावगाह इति आस्ते देवदत्त इत्यासनवत्, एतदप्ये तेनैव प्रत्युक्तं वेदितव्यम् ॥ ननु प्रागिदमुक्तमलक्षणमवगाहः खस्याव्याप्तेरिति, उच्यते-नैवेदमशेषाकाशलक्ष्म प्रतिजानते समयवेदिनः, किं तर्हि ? लोकाकाशस्य, अत एवोक्त-लोकाकाशेऽवगाह इति, आकाशं शुषिरलक्षणमेकरूयं तस्य धर्मादिद्रव्यैरवगाहिभिर्विभागः कृत इत्यतो लोकाकाशमुच्यते, अन्यथा तुल्ये शौषिर्ये निलेक्षणमेव लोकाकाशं स्यादितरद् वा । कथं केषामुपकरोतीति व्याख्यायते
भा०-धर्माधर्मयोरन्तःप्रवेशसम्भवेन पुद्गलजीवानां संयोगविभागैश्चेति।१८ ____टी-धर्माधर्मयोरित्यादि । धर्माधर्मप्रदेशा ह्यालोकान्ताल्लोकाकाशप्रदेशनिर्विभागवर्तित्वेनावस्थितास्तस्मादन्तरवकाशदानेन धर्माधर्मयोरुपकरोति, आकाशप्रदेशाभ्यन्तरवर्तित्वात् धर्माधर्मप्रदेशानाम्, अलोके तदसम्भवादिति, स्वल्पतरासङ्ख्येयप्रदेशव्यापित्वात् क्रियावत्त्वाच्च पुद्गलजीवानां संयोगैर्विभागैश्चोपकरोति, अन्यत्रावगाढाः सन्तो मृन्मनुष्य
लोष्ठशकलादयः पुनरन्यत्रोपलभ्यन्ते,सर्वत्र चाभ्यन्तरेऽवकाशदानादेकोऽप्यवगाहोऽवगायोपा'धिभेदानानैव लक्ष्यते, चशब्दादन्तःप्रवेशसम्भवेनोपकारः संयोगविभागैश्चेति योजनीयम्, न चाभाव उपकारको दृष्टः शशविषाणादिवदित्यनावरणमात्रताव्युदासोऽवगाह्यत्वाजलादिवल्लोकसंव्यवहारप्रतीतेः । अथाविद्यमाना आवृतिर्यस्य यत्रेति वा बहुव्रीहावन्यपदार्थप्रधानत्वाद् भावरूपतैव, आवरणादन्यदनावरणं चेत् आवरणं न भवतीति वा पर्युदासप्रसज्यप्रतिषेधान्यतराभ्युपगमे च सदोषतैवानिच्छतोऽपि बलात् पदार्थान्तरत्वप्राप्तेः ॥
अपरे शब्दलिङ्गमाकाशं सङ्गिरन्ते, गुणगुणिभावेन व्यवस्थानात्, तदयुक्तं, रूपादिमत्त्वाच्छब्दस्य, प्रतिघाताभिभवाभ्यां च रूपादिमत्ता विनिश्चेया । अन्ये प्रधानविकारमा
चक्षते, तदप्यसमीचीनम्, असिद्धत्वात् प्रधानस्य, कथं वा प्रधानं नित्यआकाशालनासम्बन
म्व निरवयवनिष्क्रियत्वादिस्वभावं सद् अनित्यादिभिराकारैः परिणस्यत न्धिमन्तातरम् ।
- इति । अथैवं मन्येथाः-प्रधानविकारो विज्ञानं दृष्टं सक्रियं, न चापहवः प्रत्यक्षसमधिगते समस्तीति, सत्यमिदं दृष्ट, न तु प्रधानविकारतया, न च सत्त्वं प्राधान्येन
१ आकाशस्य द्रव्यत्वेऽपि शुषिरतया प्रतिपादनं परप्रसिद्धः अवगाहकतागुणप्राधान्यता ।
२ नहि तेषां कुतोऽपि प्रवेशः किन्तु सदा अरूपितया तदनतिरिक्तवृत्तितयावस्थानं, जीवादीनां विभुत्वाभावात् संयोगादिभावः, चकारो जीवपुद्गललक्षणोपकार्यसंग्रहार्थ, अन्वयश्चोपकारेण, अन्तःप्रवेशस्यान्यूनानतिरिक्तवृत्त्यर्थत्वात् , जीवादीनां प्रतिप्रदेशसमानावगाहाभावात् न स तेषाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org