________________
सूत्रं १८] स्वोपज्ञभाष्य-टीकालङ्कृतम्
३३९ धर्ममनुरुध्यन्तेऽनेकान्तवादिनः, स्थितिपरिणामभाजां चाधर्मम्, आभ्यां च न गतिस्थिती क्रियेते, केवलं साचिव्यमात्रेणोपकारकत्वं यथा भिक्षा वासयति, कारीषोऽग्निरध्यापयतीति ॥ ननु तवापि लोकव्यापिधर्मद्रव्यास्तित्ववादिनः सन्धामात्रमेव तदुपकारो गत्युपग्रह इति स्थित्युपग्रहश्चाधर्मद्रव्योपकारस्तन्मात्रत्वादिति, अत्र जागद्यते युक्तिरस्माभिरवधत्तां भवान्गतिस्थिती ये जीवानां पुद्गलानां च ते स्वतः परिणामाविर्भावात् परिणामिकर्तृनिमित्तकारणत्रयव्यतिरिक्तोदासीनकारणान्तरसापेक्षात्मलाभे, अस्वाभाविकपर्यायत्वे सति कदाचिद् भावात् , उदासीनकारणपानीयापेक्षात्मलाभझपगतिवत्, तद् यद्येतयोरमूर्तयोरपि सतोर्गमकमेकैकस्याभावे न भवति, न चान्येनोपक्रियते, तल्लक्षणमुपकारः प्रयोजनं सामर्थ्य गुणोऽर्थ इत्यनर्थान्तरमित्यत्यन्तप्रसिद्धा एवोपकारादयः समानार्थाभिधायित्वेन, उपकारो-गतिस्थितिपरिणतद्रव्यसामीप्येन व्याप्रियमाणता, तदुपग्राहितयाऽनुष्ठानमिति प्रयोजनमतिशयेनोपकारि गुणः सामर्थ्यमात्मीयशक्तिप्रभावः, अर्थस्तु द्रव्यान्तरासम्भवि प्रयोजनमेवेति ॥ १७ ॥
यद्यतीन्द्रिययोर्धर्माधर्मयोरुपकारसम्बन्धेनास्तित्वमवधृतम्, अनन्तरोद्दिष्टस्य नभसोऽतीन्द्रियस्याधिगमे क उपकार इति ? । उच्यतेआकाशस्योपकारः . सूत्रम्-आकाशस्यावगाहः॥५-१८॥
टी०-ननु च लोकाकाशेऽवगाह इति प्राय निरूपितमेव लक्षण
ही माकाशस्य, पुनः किमयमारम्भो लक्षणाभिधित्सया ? । सत्यमुक्तं, प्रागवगाहिनां जीवपुद्गलानां प्राधान्यप्रचिकाशयिषया, इह तु तत्स्वरूपमेव निर्धार्यते, इहैव स्वरूपसिद्धिं बुद्धौ सन्निवेश्य नभसस्तदुक्तं प्राक्, अतोऽवश्यं स्वरूपव्यावर्णनं पदार्थस्य कार्यमिति ॥
भा०-अवगाहिनां धमपुद्गलजीवानामवगाह आकाशस्योपकारः॥
टी-अवगाहिनामित्यादि भाष्यम् । विहितनिर्वचनं प्रागाकाशं तस्य लक्षणमवगाहः-अनुप्रवेशनिष्क्रमणस्वभावः,अवगाहस्य सम्बन्धिशब्दत्वात् सम्बन्धिनामुपादानमवगाहिनां धमादीनाम्,आकाशस्यावगाह उपकारो लिङ्गं स्वतत्त्वमेव,एषामवकाशदायित्वेनोपकरोति, स चोपकार आत्मभूतोऽस्य लक्षणमुच्यते । एतदुक्तं भवति-अवगाहमानद्रव्याणामवगाहदायि भवति, न पुनरनवगाहमानं पुद्गलादि बलादवगाहयति,अतो निमित्तकारणमाकाशमम्बुवन्मकरादीनामित्युक्तं प्राय, अनेकमुदाहरणमिहावर्तनीयम् ॥ नन्वयमवगाहः पुद्गलादिद्रव्यसम्बन्धी व्योमसम्बन्धी चेति उभयोधर्मः, स कथमाकाशस्यैव स्वतत्त्वमुभयजन्यत्वात् धगुलसंयो
गवत् , न खलु द्रव्यद्वयजनितसंयोगो द्रव्येणैकेन व्यपदेष्टुं पार्यते लक्षणं
- वैकस्येति वक्तम, सत्यमेतत, तथापि लक्ष्यमाकाशमवगाह्यं प्रधानम, अवगाहनमनुप्रवेशो यत्र तदाकाशमवगाहलक्षणं विवक्षितम्, इतरत् त्ववगाहकं पुद्गलादि
१ चाधर्मः' इति क-पाठः। २ 'शक्तिः प्रभावः' इति क-पाठः ।
अवगा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org