________________
३४१
सूत्रं १९]
स्वोपज्ञभाष्य-टीकालङ्कृतम् ज्ञानाधि( नवि ? )कारेण परिणमते गुणत्वात् तमोवत्, अभेद एव वा चैतन्यविज्ञानयोश्चेतयते जानीते बुध्यते इति च प्रयोगदर्शनात्, तच्च चैतन्यं विज्ञानरूपमात्मनः स्वभावः, न च मूर्तादिधर्मरहितत्वान्मुक्तात्मन इव परपरिकल्पितात्मान्तः करणयोः प्रतिबिम्बोदयहेतुतेत्यलं प्रसङ्गेन ॥१८॥ परपरिकल्पितप्रधानादिपरिणामप्रतिषेधार्थमुपकारप्रकरणाभिसम्बन्धेनेदमुच्यते--
सूत्रम्-शरीरवाङ्मनःप्राणापानाः पुद्गलानाम् ॥५-१९॥ पुद्गलानामुका टी-शरीरे सत्युत्तरेषां प्रवृत्तिदर्शनादादौ तद् वचनं, तदनन्तरं वागभिधानं,
द्वीन्द्रियादिषु दर्शनान्न सर्वशरीरिषु । अन्येन्द्रियग्रहणमपि तर्हि कर्तव्यं चेत्, न आत्मप्रदेशत्वात् तेषाम्, अयं तु पुद्गलजनितोपकारप्रख्यापनायारम्भः, तदनन्तरं मनः पञ्चेन्द्रियेविषयत्वात्, अन्ते प्राणापानाभिधानं सकलसंसारिपाणिकार्यत्वात्, शरीरादीनामितरेतरयोद्वन्द्वः, प्राण्यङ्गत्वानपुंसकलिङ्गैकवद्भावप्रसङ्ग इति चेत्, न, अङ्गशब्दस्यावयवाभिधा. यित्वे सति अङ्गाङ्गिद्वन्द्वे तस्यासम्भवात्, पुद्गलानामित्युपग्रहप्रकरणात् कर्तरि षष्ठी, पौद्गलिकत्वाच्छरीरादिचतुष्टयं गमनादानव्याहरणचिन्तनप्राणनादिभावेन परिणामविशेषाहितमनुग्राहकं शरीरादिभाजाम् ॥
भा० -पञ्चविधानि शरीराण्यौदारिकादीनि वामनः प्राणापानाविति पुद्गलानामुपकारः॥
टी-पञ्चविधानीत्यादि भाष्यम् । पञ्चप्रकाराणि शरीराणि विशरारूण्यौदारिकवैक्रियाहारकतैजसकार्मणाख्यानि पुद्गलानामुपकाराः, तथा वामनः प्राणापानौ च, इतिकरणश्चार्थे गदितः, उच्यत इति वाकू,असावपि पौद्गलिकी, सा च भाषापयोप्तिभाजा वीयान्तरायज्ञानावरणक्षयोपशमाङ्गोपाङ्गनामनिमित्ता रणनस्वभावा, भाषायोग्यान् स्कन्धान कायव्यापारेणादाय वीर्यवानात्मा भाषात्वेन परिणमय्य वाक्पर्याप्तिकरणेन निसृजति स्वपरात्मोपका
. राय, सत्यपि च मूर्तत्वे न चक्षुर्लाह्या, जलमध्यप्रकीर्णलवणशकलवत् , वामनआदीनां पौगलिकत्वम्
" न चावश्यं रूपादिमत् समस्तमेव चक्षुरादिग्राह्य, परमाण्वादिविचित्रपरि
•णामावेशात् पुद्गलानाम्, तस्मान्नामूर्ता वाक् पौरस्त्यसमीरणवेगाभ्याहता परदिग्भागावस्थितश्रवणपरिणतोपलभ्यत्वात् प्रतिघाताभिभवसद्भावाच, मनश्चानन्तपुद्गलस्कन्धमनोद्रव्यप्रायोग्योपचितमूर्तित्वात् पौगलिकं, तच्च मनः पर्याप्तिभाजां पञ्चेन्द्रियाणामेव,
१ कार्मणे औदारिकादौ वा । २ कपिलमतेनाशङ्का, तन्मते तस्या इन्द्रियत्वात् , पञ्चेन्द्रियाणीति सूत्रे च तत्प्रत्युक्तमेवेति नात्रायासः। ३ स्पर्शनघ्राणादीनामिति । ४ स्पर्शादयः सर्व एव विषया अस्य । ५ कर्मबन्धनिर्जरादिहेतुतया शरीरादीनभिधाय तदितरकाययोगविशेषाभिधानं प्राणापानेत्यादि, प्राणापाना इति प्रथमान्ततयाऽभिधानं तु पुद्गलानामेव एतत्तया परिणमनात् , नैते धर्मादिवत् औदासीन्येनोपकारका इति भावः ।
६ 'वेशाः' इति क-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org