________________
सूत्र ६] स्वोपज्ञभाष्य-टीकालङ्कृतम्
३२७ अपेतक्रियाणि निष्क्रियाणि, करणं क्रिया-द्रव्यस्य भावस्तेनाकारेण, स चैषां न समस्ति, यस्माद् धर्माधर्माकाशान्यनासादितातिशयान्येव सर्वदा पूर्वापरावस्थाभेदमनाजिहानानि किल लक्ष्यन्ते, तदेतदपव्याख्यानमवधीरितसमयसद्भावैरकारि, यतः सर्वमेव सदुत्पादव्ययधौव्यधमोत्मव्यवस्था नातिकामति, तदेतेऽपि धमादयो यदि सत्तां नातिलङ्घयन्ति भवितव्यं तदा तर्हि क्रिययैषामुत्पादविगमलक्षणया जीवानामिव । अथ सत्तातिकमेणाभ्युपेयन्ते तदानीं द्रव्यतैवावहीयते गगनेन्दीवरादिवत्, भगवानपि व्याजहार प्रश्नत्रयमात्रेण द्वादशाङ्गप्रवचनार्थ सकलवस्तुसङ्ग्राहित्वात् प्रथमतः किल गणधरेभ्यः-"उप्पण्णेति वा विगमेति वा धुवेति वा" । तदेतदशेषं विशीर्यते । तस्माद् द्रव्यत्वान्मुक्तात्मवदुत्पादव्ययस्थितिमत्त्वमनुमिमते हैतुकाः । तथा चावधृतसिद्धान्तहृदयेन विशेषावश्यककारेण नमस्कारनियुक्तौ शब्दानित्यत्वप्रतिपादनेच्छयाऽवाचि
"अवगाहणादओ नणु गुणत्तओ चेव पत्तधम्मव्य । उप्पादादिसभावा तह जीवगुणावि को दोसो? ॥ अवगाढारं च विणा कत्तोऽवगाहोत्ति तेण संजोगो। उप्पत्ती सोऽवस्सं गचुवकारादओ चे ॥ ण य पञ्जयतो भिण्णं दव्वमिहेगं ततो जतो तेण ।
तण्णासंमि कहं वा नभादओ सव्वहा णिचा? ॥" (गा० २८२१-२८२३ ) अयमासामर्थोऽवधार्यः-गुणत्वात् पत्रनीलतावनभोऽवगाहोऽप्यनित्यः, नभसोऽवगाहः स्वलक्षणमुपकारः, स चावगाढारमन्तरेण जीवादिकं नाभिव्यज्यत इति अवगाढजीवादिसंयोगमात्रमवगाह इति, संयोगश्चोत्पादी संयुज्यमानवस्तुजन्यत्वाद द्वयगुलसंयोगवत्,यथा चावगाह आकाशस्यैवं गतिस्थित्युपकारावपि धर्माधर्मयोगतिमदादिद्रव्यसंयोगमात्रत्वादुत्पादादिस्वभावा इति । कथं तर्हि निष्क्रियत्वमेषामत आह-पुद्गलजीवास्तु क्रियावन्तः, क्रियेति गतिकर्माह सूत्रकारः, पुद्गलजीववर्तिनी या विशेषक्रिया देशान्तरप्राप्तिलक्षणा तस्याः प्रतिषधोऽयम्, नोत्पादादिसामान्यक्रियायाः, पुद्गलास्त्वितो देशान्तरमास्कन्दन्तः समुपलभ्यन्ते जीवाश्चेत्यतस्ते क्रियावन्तः, अमुमेवार्थ धात्वन्तरेण प्रसिद्धदेशान्तरप्राप्त्यर्थेन प्रकाशयति-गतिः क्रियाशब्दे
१ उत्पन्न इति वा विगत इति वा ध्रव इति वा।
२ अवगाहनादयो ननु गुणत्वतश्चैव पत्रधर्म इव ।
उत्पादादिस्वभावास्तथा जीवगुणा अपि को दोषः ॥१॥ अवगाढारं च विना कुतोऽवगाह इति तेन संयोगः। उत्पादी सोऽवश्यं गत्युपकारादयश्चैवम् ॥ २॥ मर पर्ययतो मिमं द्रव्यमिहैकाम्ततो यतस्तेन । तमाशे कयं वा नभआदयः सर्वथा नित्याः ? ॥३॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org