________________
३२८ तत्त्वार्थाधिगमसूत्रम्
[अध्यायः ५ नाभिधित्सिता विशिष्टैव, न क्रियासामान्यम्, धर्मादयः पूर्वावष्टब्धप्रदेशात् प्रदेशान्तरमपि विचलितुमनुत्सहमानाः कथमेवैवंविधक्रियाधारतां प्रतिपत्स्यन्ते ? तस्मानिष्क्रियाणीति निरवा दर्शनम् ॥ ६॥
अधुनाऽधिकृतधर्मादिद्रव्याणां सर्वेषामेव प्रदेशावयवेयत्ताविष्करणार्थमिदमुच्यते
भा०-अत्राह-उक्तं भवता-प्रदेशावयवबहुत्वं कायसंज्ञमिति । तेत् क एष धर्मादीनां प्रदेशावयवनियम इति ? । अत्रोच्यते
टी०-अत्राह-उक्तमित्यादिना सम्बन्धयति, अध्यायादिसूत्रे यस्मादजीवकाया इत्यत्र कायग्रहणं प्रदेशावयवबहुत्वार्थमिति व्याहृतम्, तस्मात् क एषां धर्मादीनां जीवान्तानां प्रदेशावयवनियम इति, अत्रेति प्रदेशावयवनियमप्रश्ने यथागममभिधीयते मया, एषोऽभिप्रायः प्रश्नयितुः-अमूर्तेषु धर्मादिष्ववयवव्यवहारो नास्ति, मूर्तेषु चान्त्यमेदावस्थेषु परमाणुषु, अवयवव्यवहारो हि मूर्तेष्वेव प्रतीयत इत्यतो नियमोऽभिधेयः के एषामवयवा इति ।
भा०-सर्वेषां प्रदेशाः सन्ति, अन्यत्र परमाणोः। अवयवास्तु स्कन्धानामेव । वक्ष्यते हि-'अणवः स्कन्धाश्च, सङ्घातभेदेभ्य उत्पद्यन्ते' (अ० ५, सू० २५-२६ )॥
टी-सर्वेषामित्यादि भाष्यम् । मूर्तानाममूर्तानां च प्रदेशाः सन्ति-विद्यन्ते, संव्यवहारार्थ प्रदिश्यन्त इति प्रदेशाः, तत्र धर्माधर्माकाशजीवानां द्रव्यपरमाणुमूर्तिव्यवच्छिन्नाः प्रदेशाः, यथाऽऽह-"निरवयवः खलु देशः, खस्य क्षेत्रप्रदेश इति दृष्टः" । पुद्गलद्रव्यस्य तु निरंशो द्रव्यात्मना भागः प्रदेश इत्युच्यते, न तु तस्यान्यः प्रदेशोऽस्ति, अतः परमाणोरन्यत्रेत्युक्तम्, इदं च द्रव्यांशं प्रदेशध्वनिवाच्यमाधाय चेतसि भाष्यकारेणोक्तमन्यत्र परमाणोः प्रदेशाः सन्ति, न पर्यायांशं रूपादिलक्षणम् । यतः प्रशमरतौ (श्लो०२०८) अनेनैवोक्तं-“परमाणुरप्रदेशो, वर्णादिगुणेषु भजनीयः" । अत एव च भेदः प्रदेशानामवयवानां च, ये नजातुचिद् वस्तुव्यतिरेकेणोपलभ्यन्ते ते प्रदेशाः, ये तु विशकलिताः परिकलितमूर्तयः प्रज्ञापथमवतरन्ति तेऽवयवा इत्यत आह–अवयवा इत्यादि । विशेषार्थस्तुशब्दः। विस्रसानयोगाभ्यामवयूयन्त इत्यवयवाः पृथक् क्रियन्त इतियावत्, ते च स्कन्धानामेव घणुकादिक्रमवतामनतिक्रान्तरूपादिभेदानाम्, एवशब्दो नियामकः । धर्माधर्माकाशजीवाणूनांन सन्त्यवयवाः, स्कन्धानामेव भवन्ति । कुत एतदेवमित्याह-वक्ष्यत इत्यादि । यसाद् वक्ष्यते सूत्रकारः-संघातभेदजाः स्कन्धाः (सू० २६)। वियुतानामवयवानां संहतिपरिणतौ स्कन्धा जायन्ते, संहतानां च भेदपरिणतौ ध्यणुकादयः सम्भवन्ति, परमाणवस्तु भेदादेवावयूयमाना अवयवास्तस्मादवयवव्यवहारः पुगलद्रव्यविषय एवाध्यवसेयः॥
१ 'तस्मात् क एषां धर्मामइति घ-पाठः।।
२ एवं च सति स्कन्धादिरूपभेदचतुष्टयं पुद्गलास्तिकाये न स्यात् तत्त्वतः स्पष्टोपलभ्याः स्नेहादिकृतसंयोगवि. योगमाणः अंशा अवयवास्ते यैः द्रव्यमन्यत् क्रियते भवन्ति वा ते स्कन्धेष्वेव, परेष्वप्रसिद्धत्वादवयवग्रहो न ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org