SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ ३२६ तत्त्वाधिगमसूत्रम् [ अध्यायः ५ पुनरेषां विशेषानिधित्सया सूत्रमाह सूत्रम्-आकाशादेकद्रव्याणि ॥ ५-५॥ टी-अथवा पुद्गलद्रव्यं परमाणुभेदेनानेकधा जीवद्रव्यं च नारकादिविशेषेण, तत् किमेवं धर्मादिद्रव्याण्यपीत्यारेकानिराकरणायेदमुच्यते - ___ भा०-आ आकाशाद् धर्मादीन्येकद्रव्याण्येव भवन्ति । धर्मादीनां सङ्ख्या पुद्गलजीवास्त्वनेकद्रव्याणीति ॥५॥ टी०-आ आकाशादित्यादि भाष्यम् । अभिविधिचित्वादातो द्वित्वं ततश्च संहितया सूत्रपाठस्तं विवृणोति भाष्येण-आ आकाशात् अध्यायादिसूत्रोपात्तक्रममुद्दिश्याकाशाभिव्याप्तिप्रचिकाशयिाया आ आकाशादित्युवाच । धर्मादीनीति प्रथितप्रतिविशिष्टानुपूर्वीप्रदर्शनं धर्माधर्माकाशानि एकद्रव्याण्येवेति, नैषां समानजातीयानि द्रव्यान्तराणि सन्तीति, अविलक्षणोपकारात्, धर्मावर्माकाशानां हि गतिस्थित्यवगाहोत्पच्या प्रभावित उपकारः, स्थित्यादित्रययुक्तं हि वस्त्वर्थक्रियासमर्थमभ्युपेयतेऽनेकान्तवादिभिः, धर्मादिद्रव्यागां च गत्यादय उपकाराः स्वस्थाने युक्त्या प्रतिपादयिन्यन्ते, एकशब्दोऽसहायार्थमभिधत्ते, यथा परमाणुः परमाण्वन्तरेण सद्वितीयः, आत्मा आत्मान्तरेण ज्ञानसुखदुःखजीवनादिभेदभाजा, न धर्मद्रव्यं धर्मद्रव्यान्तरेण ससहायम्, अधर्मव्योमनी चैत्रमाविष्कार्ये, द्रव्यं गुणपर्यायवद् (सू० ३७) वक्ष्यते, तदनेन स्वगतधर्मपरिणामप्राप्तिरापाद्यते मुक्तस्येव, अन्यथा गुगपर्यायशून्यं द्रव्यमेव न स्याद् व्योमोत्पलादिवत्, एवशब्देन नियम्यते एकद्रव्याण्येवैतानि, तुल्यजातीयद्रव्याभावात्, नियमेन चेष्टार्थसिद्धि प्रदर्शयति-पुद्गलजीवास्त्वनेकद्रव्याणीति, सम्भाव्यानेकतया पुद्गलात्मानो विशेष्यन्ते तुशब्देन, इतिकरणं यस्मादर्थे, यस्मात् तुल्यजातीयभूयस्त्वमेषां तस्मादनेकद्रव्याणि परमाणुप्रभृतीन्यनन्ताणुकस्कन्धावसानानि क्षितिजलज्वलनानिलतरुद्वित्रिचतुष्पश्चेन्द्रियात्मानश्चेति भावनीयम् ॥५॥ ___ अयमपरो विशेषस्तेषामेवाभिधीयते सूत्रम्-निष्क्रियाणि च ॥ ५-६ ॥ .. टी.-अथवा एवं तावदरूपित्वैकद्रव्यत्वे विभज्याख्याते इदमपि विभज्याख्यायत इत्याहचार्थमाचष्टे भाष्यकार: भा०-आ आकाशादेव धर्मादीनि निष्क्रियाणि भवन्ति । धर्मादिषु क्रियावि चारपाक पुद्गलजीवास्तु क्रियावन्तः । क्रियेति गतिकर्माह ॥ ६॥ टी-आ आकाशादेव धर्मादीनीत्येतावता भाष्येण कथं भाव्यते ? । अनन्तरसूत्रे सामर्थ्यपरिप्रापितानि धर्मादीन्यनुकृष्यन्ते, धर्मादीन्याकाशान्तानि निष्क्रियाणि भवन्ति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy