________________
सूत्रं ४]
स्वोपक्षमाष्य-टीकालङ्कृतम् दध्यादतिविकलत्वात्, प्रधानोपसर्जनतया तु कदाचित् किश्चिद विवक्ष्यते शिविकावाहकयानेश्वरयानवत्, अतः प्रत्यक्षप्रमाणप्रसिद्धपदार्थस्वरूपे नातीवायासयति बुद्धिमात्मवन्तः, तसानित्यानित्ययोरास्पदमेकममी पुद्गला इति न किञ्चित् कस्यचिद् बाध्यते, ते च रूपवन्त इति ॥
अधुना भाष्यमनुश्रियते- . भा०—पुद्गला एव रूपिणो भवन्ति । रूपमेषामस्त्येषु वाऽस्तीति रूपिणः ॥४॥ टी०-पूरणाद् गलनाच्च पुद्गलाः-परमाणुप्रभृतयोऽनन्तानन्तप्रदेशस्कन्धपर्यवसानास्त एव
___ रूपवत्तामनन्यसाधारणीमनेकरूपपरिणतिसामर्थ्यापादितसूक्ष्मस्थूलविशेReण पाविशेषप्रकर्षाप्रकर्षवर्तिनी विधति, न धर्मादिद्रव्यविशेषा इति रूपवत्त्व, मत्रावधार्यते, तद्धि न जातुचिदतिचिरपरिचितपरमाणुयणुकादिक्रमवृद्धद्रव्यकलापमुज्झति सामर्थ्याच पुद्गला अपि न तां विहाय वर्तन्ते, अतः पुद्गला एव रूपिण इति सुठूच्यते । रूपं मूर्तिरिति च प्राक (सू० ३) प्रतिपादितम्, अतस्तदनुसन्धानाभिप्रायेणाह-रूपमेषामस्त्येषु वास्तीति रूपिण इति । एषामिति पुद्गलानां परमाणुयणुकादिक्रममाजाम्, उक्तलक्षणं रूपं मूर्तिः सा विद्यत इति रूपिणः, षष्ठीप्रदर्शनात् तु भेदविवक्षावशपरिप्रापितं द्रव्यगुणयोर्नानात्वमध्यवसातव्यम्, अभेदविवक्षोपनीतं च द्रव्यपर्याययोरैक्यम्, अतस्तत्प्रदर्शनाय व्यापकाधिकरणलक्षणा सप्तमी विगृह्णता आचार्येणोपात्ता। अथवा तुल्य एव मत्वर्थोऽयमुभयत्राभेदो भेदश्च पर्यायनयापेक्षो द्रव्यास्तिकनयापेक्षश्च योजनीयः। न मूर्तिव्यतिरेकेण पुद्गलाः सन्ति, भिन्न देशसम्बन्धित्वेनानुपलब्धेः, व्यतिरेकिणोऽपि गमकत्वादसन्निहितविपक्षकस्येत्यभेदः, तथा यदिदं चन्दनमुपलभ्यते तस्य श्वेतं रूपं, तिक्तो रसः, पटुर्गन्धः, शीतलः स्पर्श इति; यश्चैष प्रत्यक्षेण प्रत्यक्षस्य व्यपदेशः सोऽर्थान्तरे दृष्टः, तद्यथा-अस्य ब्राह्मणस्यायं कमण्डलुरिति ॥ ननु चोपन्यस्तनिदर्शनबलेन द्रव्यमेव द्रव्यादर्थान्तरमिति न गुणेभ्यो द्रव्यमिति, उच्यते-योध्यमुपलभ्यस्य समस्तैरुपलब्धैर्व्यपदेशः सोऽर्थान्तरं गमयति, तच द्रव्यं गुणः क्रियावा स्यादिति कोऽपरितोषः । सेनावनादिवदनेकान्त इति चेत्, दृष्टो ह्यनान्तरेऽपि व्यपदेशः सेनायाः कुञ्जरः सहकारः काननस्येति । अत्रोच्यते-न खलु प्रसिद्धमनर्थान्तरत्वं सेनाकाननयोर्यस्मादनियतदिग्देशसम्बन्धिषु करिपुरुषतुरगस्प(स्य?)न्दनेषु परस्परप्रत्यासत्तिजनितोपकारेष्ववधारितानवधारितेयत्तेषु बहुत्वसङ्ख्यैव सेना, तथा काननमपि, एतच द्वयमप्यर्थान्तरमेव, यूषपत्यादयोऽपि ह्यान्तरतयैवं वक्तव्याः, यूषो द्युत्पन्नपाकजानां द्रव्याणां काल विशेषानुग्रहे सति द्रव्यान्तरसम्पृक्तानां पाकजोत्पत्तौ यः संयोगः स यूष इत्याख्यायतेऽर्थान्तरभूतश्व, पक्ति रप्येकदिग्देशसम्बन्धिषु परस्परप्रत्यासत्त्युपकृतेष्ववधारितानवधारितेयत्ताकेषु भिन्नाभिन्नजातीयेष्वाधारेषु वर्तमाना बहुत्वसङ्ख्यैवाभिधीयत इति । तस्मात् सापेक्षमिदं नयद्वयं वस्तुनः सद्भावमापादयति नैकान्त इत्यस्यार्थस्योद्भासनार्थमकरोद् भाष्यकारो विभक्तिद्वयेन विग्रहम्, अतोऽयं वाक्यार्थ:-पुद्गलेषु मूर्तिर्भेदाभेदवर्तिनी, विवक्षावशादिति ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org