SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ सूत्राणि ४३-४६] स्वोपज्ञभाष्य टीकालङ्कृतम् केनाप्यभिप्रायेण । आगमस्तावदयम्-"संव्वसिद्धदेवाणं भंते ! केवतियं कालं ठिई पण्णत्ता ? गोयमा! अजहण्णुक्कोसेणं तित्तीसं सागरोवमाई ठिई पन्नता" (प्रज्ञा०प० ४, सू०१०२)। सौधर्मे देवीनां परिगृहीतानां जघन्येन पल्योपममुत्कर्षेण सप्त पल्योपमानि, अपरिगृहीतानां जघन्येन पल्योपममुत्कर्षेण तु पञ्चाशत् पल्योपमानि, ऐशाने तु परिगृहीतदेवीनां सातिरेकं पल्योपममुत्कर्षेण नव पल्योपमानि, अपरिगृहीतानां जघन्येन सातिरेकं पल्योपममुत्कर्षण पञ्चपञ्चाशत् पल्योपमानीति ॥ ___ परतः परतः पूर्वा पूर्वानन्तरेत्यभिसम्बन्धुकामोत्राप्रकृतानामपि लघ्वर्थ पुनर्वक्तव्यगौरवभीत्याऽवतारयति सूत्रम्-नारकाणां च द्वितीयादिषु ॥४-४३ ॥ भा०-नारकाणां च द्वितीयादिषु भूमिषु पूर्वा पूर्वा परा स्थितिरनन्तरा परतः परतोऽपरा भवति । तद्यथा-रत्नप्रभायां नारकाणामेकं सागरोपमै परा स्थिीतः, सा जघन्या शर्कराप्रभायाम् । त्रीणि सागरोपमाणि नारकाणां स्थितिः 'परा स्थितिः शर्कराप्रभायां, सा जघन्या वालुकाप्रभायामित्येवं सर्वासु । तमःप्रभायां द्वाविंशतिः सागरोपमाणि परा स्थितिः सा जघन्या महात. माप्रभायामिति ॥ ४३ ॥ _____टी-सुज्ञानमेव भाष्यं प्रायः, सप्तम्यां चतुर्षु नरकेषु जघन्या द्वाविंशतिसागरोपमा स्थितिरुत्कृष्टा त्रयस्त्रिंशत् सागरोपमाणि, अप्रतिष्ठाने तु त्रयस्त्रिंशत् सागरोपमाण्यजघन्योत्कृ. टेति ॥४३॥ अथ प्रथमायां कथं जघन्या प्रतिपत्तव्येत्याह सूत्रम्-दश वर्षसहस्राणि प्रथमायाम् ॥ ४-४४ ॥ - भा०-प्रथमायां भूमौ नारकाणां दश वर्षसहस्राणि जघन्या स्थितिः ॥४४॥ टी०-दश वर्षेसहस्राणि प्रथमायां प्रथमवसुधानारकाणां स्थितिर्जघन्यैतावतीति ४४ सूत्रम्-भवनेषु च ॥ ४-४५ ॥ भा०-भवनवासिनां दश वर्षसहस्राणि जघन्या स्थितिरिति ॥४५॥ . टी-भवनवासिनामप्येषैव जघन्येति ॥ ४५ ॥ सूत्रम्-व्यन्तराणां च ॥ ४-४६ ॥ भा०-व्यन्तराणां च देवानां दश वर्षसहस्राणि जघन्या स्थितिः॥४६॥ टी०-एषामपि जघन्या भवनवासिदेववद द्रष्टव्येति ॥ ४६॥ १ सर्वार्थसिद्धदेवानां भदन्त ! कियन्तं कालं स्थितिःप्रज्ञप्ता गौतम ! अजघन्योत्कर्षेण त्रयस्त्रिंशत् सागरोपमाणि स्थितिः प्रज्ञप्ता। ४. Jain Education International For Private & Personal Use Only - www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy