________________
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ४ टी-अत्राहेत्यादिसम्बन्धग्रन्थः । नृतिरश्चां परापरे स्थिती व्याख्याते, औपपातिकानां पुनर्नारकदेवानां किमेकैवोत्कृष्टा स्थितिरितरा नास्ति ? । अस्तीत्याह
सूत्रम्-अपरा पल्योपममधिकं च ॥ ४-३९ ॥ भा०-सौधर्मादिष्वेव यथाक्रममपरा स्थितिः पल्योपममधिकं च । अपरा जघन्या निकृष्टत्यर्थः । परा प्रकृष्टा उत्कृष्टत्यनान्तरम् । तत्र सौधर्मेऽपरा स्थितिः पल्योपमम्, ऐशाने पल्योपममधिकं च ॥ ३९॥
टी.-सौधर्मादिषु यथाक्रममित्येतदनुवर्तते, अपरा जघन्या, सौधर्मे कल्पे पल्योपममायुषः स्थितिर्भवति, ऐशाने तदेव पल्यापममधिकं कियतापि विशेषेण जघन्या स्थितिरिति ।
सूत्रम्-सागरोपमे ॥ ४-४० ॥ भा०-सनत्कुमारे अपरा स्थिति सागरोपमे ॥ ४०॥ टी०-सनत्कुमारे द्वे सागरोपमे जघन्या स्थितिः॥४०॥
सूत्रम्-अधिके च ॥ ४-४१॥ भा०-माहेन्द्रे जघन्या स्थितिराधिके वे सागरोपमे ॥४१॥ टी०-द्वे सागरोपमे अधिके जघन्या स्थितिमाहेन्द्रे ॥४१॥
सूत्रम्-परतः परतः पूर्वा पूर्वाऽनन्तरा ।। ४-४२॥
भा०-माहेन्द्रात् परतः पूर्वा परा(पूर्वा)ऽनन्तरा जघन्या स्थितिर्भवति । तद्यथा-माहेन्द्रे परा स्थितिर्विशेषाधिकानि सप्त सागरोपमाणि सा ब्रह्मलोके जघन्या स्थितिर्भवति। ब्रह्मलोके दश सागरोपमाणि परा स्थितिःसा लान्तके जघन्या। एवमा सर्वार्थसिद्धादिति । [विजयादिषु चतुएं परा स्थितिस्त्रयस्त्रिंशत् सागरोपमाणि, साऽजघन्योत्कृष्टा सर्वार्थसिद्ध इति ] ॥ ४२ ॥
____टी०-परतः परतः पूर्वा पूर्वानन्तरा ब्रह्मलोकादिषु पूर्वकल्पस्थितिरुत्कृष्टा सोपरितनानन्तरकल्पे जघन्या वेदितव्या । तद्यथा-माहेन्द्रे सप्त सागरोपमाणि विशेषाधिकानि परा स्थितिः सा ब्रह्मलोके जघन्या । ब्रह्मलोके दश सागरोपमाणि परा सा लान्तके जघन्येत्येवं शेषेष्वप्यायोजनीया यावत् सर्वार्थसिद्धविमानम्।तत्र विजयादिषु चतुर्यु जघन्येनैकत्रिंशदुत्कर्षेण द्वात्रिंशत्, सर्वार्थसिद्ध त्रयस्त्रिंशत् सागरोपमाण्यजघन्योत्कृष्टा स्थितिः। भाष्यकारेण तु सर्वार्थसिद्धेऽपि जघन्या द्वात्रिंशत् सागरोपमाण्यधीता, तन्न विनः
१ यद्यपि वर्जनप्रसङ्गे प्राक् चतुर्थ्याः प्राक् ग्रैवेयकेभ्य इत्यादिवत् प्राक्शब्दः प्रयुज्यते, समादानप्रसङ्गे आचतुर्थ्य इत्यादिवत् आङा निर्देश इत्यत्र आङा निर्देशात् सर्वार्थसिद्धस्यापि ग्रहणमापन्नमिति वृत्त्यभिप्रायः, परं प्रागू अजघन्योत्कृष्टतया त्रयस्त्रिंशतः सागरोपमाणां कथनात् न तत्र जघन्यस्थितिरन्या भाष्यकृतोऽभिप्रेता। एकपुत्रस्य ज्येष्ठकनिष्ठताबत्तु अनाडोक्तिः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org