SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ सूत्रे ३७-३८] स्वोपज्ञभाष्य टीकालङ्कृतम् .टी-सनत्कुमारे सप्त सागरोपमाणि परा स्थितिरिन्द्रादीनामिति ॥ ३६॥ सूत्रम्-विशेषत्रिसप्तदशैकादशत्रयोदशपञ्चदशभिरधिकानि च ॥४-३७॥ ____ भा०-एभिर्विशेषादिभिरधिकानि सप्त माहेन्द्रादिषु परा स्थितिर्भवति । सप्तेति वर्तते । तद्यथा-माहेन्द्रे सप्त विशेषाधिकानि, ब्रह्मलोके त्रिभिरधिकानि माहेन्द्रादीनां परा सप्त, दशेत्यर्थः । लान्तके सप्तभिरधिकानि सप्त, चतुर्दशेत्यर्थः । स्थितिः महाशुक्रे दशभिरधिकानि सप्त, सप्तदशेत्यर्थः । सहस्रारे एकादशभिरधिकानि सप्त, अष्टादशेत्यर्थः । आनतप्राणतयोस्त्रयोदशभिरधिकानि सप्त, विंशतिरित्यर्थः। आरणाच्युतयोः पञ्चदशभिरधिकानि सप्त, द्वाविंशः तिरित्यर्थः ॥ ३७॥ टी-सप्त सागरोपमाणि विशेषेणाधिकानि माहेन्द्रे परा स्थितिः, ब्रह्मलोके सप्त त्रिभिरधिकानि परा स्थितिः,दश सागरोपमाणीत्यर्थः। लान्तके सप्त सागरोपमाणि सप्तभिरधिकानि परा स्थितिश्चतुर्दशसागरोपमेतियावत् । महाशुक्रे सप्त सागारोपमाणि दशभिरधिकानि परा स्थितिः, सप्तदश सागरोपमाणीत्यर्थः । सहस्रारे सप्त सागरोपमाण्येकादशभिरधिकानि परा स्थितिरष्टादशसागरोपमेतियावत् । आनतप्राणतयोः सप्त सागरोपमाणि त्रयोदशभिरधिकानि परा स्थितिविंशतिसागरोपमेत्यर्थः । एकेन्द्रोपभोग्यत्वान्न पृथक् कल्पद्वयेऽभिहिता। आरणाच्युतयोः सप्त सागरोपमाणि पश्चदशभिरधिकानि परा स्थितिद्वाविंशतिसागरोपमेत्यर्थः । अत्राप्येकेन्द्रोपभोग्यत्वादेव न विवेकेनाभिधानमिति ॥ ३७॥ सूत्रम्-आरणाच्युतादूर्ध्वमेकैकेन नवसु अवेयकेषु विजयादिषु सर्वार्थसिद्धे च ॥ ४-३८॥ भा०-आरणाच्युतादूर्ध्वमेकैकेनाधिका स्थितिर्भवति नवसु अवेयकेषु विजयादिषु सर्वार्थसिद्धे च । आरणाच्युते द्वाविंशतिāवेयकेषु पृथगेकैकेनाधिकास्त्रयोविंशति(प्रभृति)रित्यर्थः। एवमेकैकेनाधिकाः सर्वेषु नवसु यावत् सर्वेषामुपरि नवमे एकत्रिंशत् । सा विजयादिषु चतुर्वप्येकेनाधिका द्वात्रिंशत् । साऽप्येकेनाधिका, सर्वार्थसिद्धे त्वजघन्योत्कृष्टा त्रयस्त्रिंशदिति ॥ ३८॥ टी-आरणाच्युतादिति कृतैकवद्भावो निर्देशः, आरणोपलक्षितो वाऽच्युतः, ऊर्ध्वमेकैकेन सागरोपमेणाधिका नवस्वपि अवेयकेषु विजयादिषु च चतुषु सर्वार्थसिद्धे च परा स्थितिवेदितव्येति । शेषं भाष्यं सुज्ञानमेव ॥३८॥ भा०-अत्राह-मनुष्यतिर्यग्योनिजानां परापरे स्थिती व्याख्याते,अथौपपातिकानां किमेकैव स्थितिः परापरे न विद्यते इति ? । अत्रोच्यते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy