________________
३१०
तत्त्वार्थाधिगमसूत्रम् . [ अध्यायः ४ टी-दक्षिणार्धाधिपतीनां व्यतिरिक्ता उत्तरार्धाधिपतयः शेषा बलिव्यतिरिक्ताः तेषां पादोने द्वे पल्योपमे स्थितिरायुषः, पादश्चतुर्थभाग इति ॥ ३१ ॥
अथ किमेषां भवनवास्यधिपतीनां सर्वेषामियं परा स्थितिः ? नेत्युच्यते, किन्त्वाधिपत्यसामान्ये विशेषेणानयोः प्रतिपत्तव्या ॥ ३१ ॥
सूत्रम्-असुरेन्द्रयोः सागरोपममधिकं च ॥ ४--३२ ॥ भा०-असुरेन्द्रयोस्तु दक्षिणार्धाधिपत्युत्तरार्धाधिपत्योः सागरोपममधिकं च यथासङ्ख्यं परा स्थितिर्भवति ॥ ३२ ॥
टी०-पूर्वा (दक्षिणा ?)र्धाधिपतेश्चमरस्योत्तरार्धाधिपतेश्च बलिराजस्य यथासङ्ख्यमेव, सागरोपमं चमरस्य बलेस्तदेवाधिक कियताऽपि विशेषेण सागरोपमस्थितिरायुषो भवतीति,। उक्तं च सागरोपमं लक्षणतः प्रागिति, असुरकुमारीणां चत्वारि पल्योपमानि सार्धानि परा स्थितिः, शेषाणां नागवधूप्रभृतीनां सर्वभवनवासिनीनां देशोनं पल्योपममुत्कृष्टा स्थितिरिति ॥३२॥
आद्यदेवनिकायस्थितिव्याख्यानानन्तरं व्यन्तरज्योतिष्कानवसरप्राप्तानतिलयोपरिष्टादेव तावल्लाघवार्थिना वैमानिकनिकायस्थितिराख्यायते
वैमानिकरिशसूत्रम्-सौधर्मादिषु यथाक्रमम् ॥ ४--३३ ॥ तिप्रस्ताव भा०--सौधर्ममादिं कृत्वा यथाक्रममित ऊर्ध्वं परा स्थितिवं. क्ष्यते ॥ ३३ ॥
टी-सौधर्ममादिं कृत्वा यावत् सर्वार्थसिद्धविमानं तावद् यथाक्रममिति ऊर्ध्वं स्थितिक्ष्यते देवानामायुष इति ॥ ३३ ॥
सूत्रम्-सागरोपमे ॥ ४-३४॥ भा०-सौधर्मे कल्पे देवानां परा स्थिति सागरोपमे इति ॥ ३४ ॥ टी-इन्द्रसामानिकानां सागरोपमद्वयं सौधर्मे स्थितिरुत्कृष्टा लभ्यत इति ॥ ३४॥
सूत्रम्-अधिके च ॥ ४--३५॥ भा०-ऐशाने हे सागरोपमे अधिक परा स्थितिर्भवति ॥ ३५॥
टी-अधिके च यथाक्रमग्रहणादैशानोऽभिसम्बध्यते । द्वे सागरोपमे कियताऽपि विशेषेणाधिके ऐशाने कल्पे परा स्थितिरिन्द्रादीनामिति ॥ ३५॥
सूत्रम्-सप्त सनत्कुमारे ॥४--३६ ॥ भा०--सनत्कुमारे कल्पे सप्त सागरोपमाणि परा स्थितिर्भवति ॥३६॥ १'द्वे' इत्यधिको ग-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org