SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ सूत्राणि २९-३१] स्वोपज्ञभाष्य-टीकालङ्कृतम् • भ्यश्च गर्भव्युत्क्रान्तिभ्यः सम्मूछेनजेभ्यश्च ये शेषाः एकद्वित्रिचतुष्पश्चेन्द्रियास्ते सर्वेऽपि तिर्यग्योनिव्यपदेशभाजो भवन्ति । देवादिवत् तदाधारनिर्देश इति चेत्, न, सर्वलोकव्यापिस्वात्, तिर्यग्लोके चैते भूयांस इति तिर्यग्योनिसंज्ञा प्रतिपत्तव्येति ॥ २८ ॥ ___ भा०-अत्राह-तिर्यग्योनिमनुष्याणां स्थितिरुक्ता । अथ देवानां का स्थितिरिति । अत्रोच्यते टी.-अत्राह-तिर्यग्योनिमनुष्याणामित्यादिपातनिकाग्रन्थः । तृतीयाध्यायपरिसमाप्तौ नृतिरश्वां परापरस्थिती गदिते । अथ देवानां भवनवासिप्रभूतीनां का स्थितिरायुष इति ? । अत्रोच्यते सूत्रम्-स्थितिः ॥४-२९ ॥ भा०-स्थितिरित्यत ऊर्ध्व वक्ष्यते ॥ २९ ॥ टी-स्थितिरित्यत ऊर्य वक्ष्यत इति भाष्यम् । इतःप्रभृति स्थितिरित्यधिक्रियते, सा तु द्वयी जघन्योत्कृष्टभेदादिति, यद्येवमुभयसम्भवे भवनवासिनामेव तावदादिनिर्देशमाजामुच्यतां का परा स्थितिरिति, इमेऽभिदध्महे सत्यपि तेषां विकल्पबहुत्वे महामन्दरावधेदेक्षिणोत्तरार्धाधिपतिविभाग एवाद्रियते ॥ २९ ॥ सूत्रम्-भवनेषु दक्षिणार्धाधिपतीनां पल्योपममध्यर्धम् ॥ ४-३०॥ भवनासिनो भा०-भवनेष तावद् भवनवासिनां दक्षिणार्धाधिपतीनां स्थितिः पल्योपममध्यधं परा स्थितिः, द्वयोर्यथोक्तयोर्भवनवासीन्द्रयोः पूर्वो दक्षिणार्धाधिपतिः पर उत्तरार्धाधिपतिः ॥३०॥ टी-भवनेष दक्षिणार्धाधिपतीनां पल्योपममध्यर्धम्, चमरं विहायासुरनिकायपरिवृढं शेषभवनवासिदक्षिणार्धाधिपतीनामर्धाधिकं पल्योपमं स्थितिरायुषो वेदितव्या, उक्तलक्षणं पल्योपमम, अधिकमधमस्मिस्तदिदमध्यर्धम् , बहुव्रीहिणा पल्योपमाभिसम्बन्धः, सन्देहापनोदनायेदमाख्यायते-पूर्वनिर्दिष्टयोईयोर्भवनवासीन्द्रयोः प्रथमनिर्दिष्टो यः स दक्षिणार्धाधिपतिरवसेयः, पश्चानिर्दिष्ट उत्तरार्धाधिपतिरिति ॥ ३० ॥ अथोत्तरार्धाधिपतीनामायुषः का स्थितिरित्याह सूत्रम्-शेषाणां पादोने ॥ ४-३१ ॥ भा०-शेषाणां भवनवासिष्वधिपतीनां (शेषाणां) हे पल्योपमे पादोने परा स्थितिः। के च शेषाः? उत्तरार्धाधिपतय इति ॥ ३१ ॥ १ 'द्वयोः' इत्यधिको घ-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy