________________
तत्वार्थाधिगमसूत्रम्
[ अध्यायः ४
अनुत्तरदेवानां टी० -- विजयादिष्वित्यादि भाष्यम् । विजयादिषु चतुर्षु विमाभवोच्छेदः नेषु, अन्यविजयादिव्यावृत्त्यर्थमनुत्तरग्रहणम्, अनुत्तरशब्दस्पर्शादियोगादनुत्तरविमानानि तेषु देवा द्विचरमा भवन्ति, द्विचरमत्वं स्पष्टयति - ततो विजयादिभ्यश्रयुताः परम् - उत्कर्षेण द्विर्जनित्वा मनुष्येषु सिद्धिमनुगच्छन्ति, विजयादिविमानाच्च्युतो मनुष्यः पुनरपि विजयादिषु देवस्ततश्युतो मनुष्यः सन् सिध्यतीति । अपरे वर्णयन्ति - विजयादिभ्यश्युताः परतो मनुष्याः सर्वार्थसिद्धजन्मलाभं लब्ध्वा तृतीये भवे सिध्यन्तीति द्विचरमाः । एतत्वयुक्तं व्याख्यानम् । सर्वार्थसिद्धविमानोत्पादे सति तत्प्रच्युतिसमनन्तरजमनि सिद्धिगतिश्रवणात् कोऽतिशयस्तत्र विजयादीनामिति । सर्वार्थसिद्धविमानवासिनस्तु सकृज्जनित्वा मनुष्येषु सिद्धिमधिगच्छन्ति-मुक्तिमासादयन्ति सर्वे चानुत्तरोपपातिनः किल देवाः प्रतनुकर्माणो भवन्तीति । यथाऽऽहाग मे - " अणुत्तरोववादियाणं देवा णं ! भंते ! केवइणं कम्माव सेसेणं अणुत्तरोववादियत्तेण उववन्ना ? गोयमा ! जावतिअन्नं छहभत्तीए सम
३०८
निग्गंथे कम्मं निज्जरेइ एवतिएण कम्मावसेसेण अणुत्तरोववाहयत्ताए उववन्ना" । शेषास्तु भजनीयाः । वैमानिकप्रतिपत्यर्थं वा शेषग्रहणम् । अथवा समस्त देवप्रतिपादनार्थमध्यवसातव्यम्, अतः शेषाः कदाचित् कचित् सकृद् द्वित्रिचतुःप्रभृति वा मनुष्येषु जन्मासाद्य सिद्धयन्तीति ॥ २७ ॥
तिर्यक्कुप्रस्तावः
भा०—- अत्राह उक्तं भवता - - जीवस्यौदयिकेषु भावेषु तिर्यज्योनिगतिरिति, तथा स्थितौ ' तिर्यग्योनीनां च ' (अ० ३, सू० १८) इति, आस्रवेषु ' माया तैर्यग्योनस्य' (अ० ६, सू० १७ ) इति । तत् के तिर्यग्योनय इति ? । अत्रोच्यते
टी० – अत्राह-उक्तं भवतेत्यादिसम्बन्धग्रन्थः । द्वितीयेऽध्याये ( सू० ६) औदयिकभावव्याख्याप्रस्तावे तिर्यग्योनिगतिरुक्ता, तृतीयाध्यायपरिसमाप्तौ ( सू० १८ ) तिर्यग्योनिजानां चेति स्थितिरायुषोऽभिहिता, षष्ठे चास्त्रवप्रस्तावे ( सू० १७ ) माया तैर्यग्योनस्येति वक्ष्यते, तत् के तिर्यग्योनय इति ? । अत्रोच्यते
सूत्रम् - औपपातिकमनुष्येभ्यः शेषास्तिर्यग्योनयः ॥ ४-२८ ॥
भा०- औपपातिकेभ्यश्च नारकदेवेभ्यो मनुष्येभ्यश्च यथोक्तेतिरश्चां निर्देशः भ्यः शेषा एकेन्द्रियादयस्तिर्यग्योनयो भवन्ति ॥ २८ ॥
टी० - औपपातिकेभ्यश्चेत्यादि भाष्यम् । औपपातिका नारकदेवास्तेभ्यो मनुष्ये१ अनुत्तरोपपातिका देवा भदन्त ! कतिपयेन कर्मावशेषेण अनुत्तरोपपातिकत्वेन उपपन्नाः ? गौतम ! यावत् षष्ठभक्तिकः श्रमणः निर्ग्रन्थः कर्म निर्जरयति एतावता कर्मावशेषेण अनुत्तरोपपातिकतया उपपन्नाः ( भग० ) ।
२ 'उपपातिका' इति क-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org