________________
सूत्रे २६-२७ ] स्वोपनभाष्य-टीकालङ्कृतम्
३०७ रणाग्निज्वालाकीर्णो वा लोकस्तदन्तवर्तित्वात लोकान्तिका कर्मक्षयाभ्यासभावाच्च । ब्रह्मलोकं परिवृत्याष्टासु दिक्ष्वष्टविकल्पा भवन्ति । अत्र दिग्ग्रहणं सामान्येन दिग्विदिक्प्रतिपत्यर्थम् । ब्रह्मलोकाऽधोव्यवस्थितरिष्ठविमानप्रस्तारवर्तिन्योऽक्षपाटकसंस्थिता अरुणवरसागरे समुद्भूता अतिबहलतमःकायप्रभवाः कृष्णराज्योष्टौ भवन्ति, यासां मध्येन प्रयान् देवोऽप्येकः सङ्क्षोभमापद्यतेति । तत्र द्वयोर्द्वयोः कृष्णराज्योर्मध्यभागे एते भवन्ति । स्थापना ॥२५॥
तद्यथासूत्रम्-सारस्वतादित्यवन्यरुषगर्दतोयतुषिताव्योबाधमरुतो
रिष्ठाश्च ॥४-२६॥ भा०-एते सारस्वतायोऽष्टविधा देवा ब्रह्मलोकस्य पूर्वोत्तरादिषु दिक्षु ..प्रदक्षिणं भवन्ति यथासङख्यम् । तद्यथा-पूर्वोत्तरस्यां दिशि सारस्वताः, पूर्व स्यामादित्या इत्येवं शेषाः ॥२६॥
__टी०--विमानसाहचर्याद् देवानां सारस्वतादिसंज्ञाः एते सारस्वतादयोऽष्टविधा देवा इत्यादि सुगमम् । पूर्वोत्तरस्यां दिशि सारस्वताः, पूर्वस्यामादित्याः,
...... पूर्वदक्षिणस्यां वह्नयः, दक्षिणस्यामरुणाः, दक्षिणापरस्यां गर्दतोयाः, अपलोकान्तिकानां व्य "वस्था" रस्यां तुषिताः, अपरोत्तरस्यामव्यावाधाः, उत्तरस्यां मरुतः, मध्येऽरिष्ठा
नन्वेवमेते नभेदा भवन्ति, भाष्पलता चाष्टविधा इति मुद्रिताः । उच्यते-लोकान्तवर्तिन एतेऽष्टभेदाः मरिणोपात्ताः, रिष्ठविमानप्रस्तारवर्तिभिर्नवधा भवन्तीत्यदोषः। आगमे तु नवधैवाधीताइति ॥एवमयं कार्मणशरीरप्रणालिकयास्रवापेक्षयाऽऽपादितसुखदुःखानां भव्याभव्यभेदाहितद्वैविध्यानां प्राणिनां संसारोऽनादिरपर्यवसानः, अन्येषां मोहोपशमनक्षपणं प्रत्याहतानामप्रतिपतितसम्यग्दर्शनानां परीतविषयत्वात् सप्ताष्टानि भवग्रहणान्युत्कर्षणानुबन्धीनि, जघन्येन द्वित्राण्यतिवायोच्छिद्यते, इत्यविशेष सत्यन्ये भाज्याः ॥ २६ ॥ अमी पुनरुत्कर्षेण
सूत्रम्-विजयादिषु द्विचरमाः ॥ ४-२७ ॥ टी०- द्वौ चरमावेषां द्विचरमाः । चरमशब्द उक्तार्थः, चरमविदेहा इतियावत् । चरमत्वमेकस्मिन्निति चेत्, न, औपचारिकत्वात् ।
भा०-विजयादिष्वनुत्तरेषु विमानेषु देवा विचरमा भवन्ति । विचरमा इति ततश्च्युताः परं द्विर्जनित्वा सिध्यन्तीति । सकृत् सर्वार्थसिद्धमहाविमानवासिनः, शेषास्तु भजनीयाः॥ २७॥
१'व्याबाधारिष्टामरुतः' इति क-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org