________________
३०६ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ४ . भा०-अत्राह-किं देवाः सर्व एव सम्यग्दृष्टयो यद् भगवतां परमर्षीणा. महतां जन्मादिषु प्रमुदिता भवन्तीति । अत्रोच्यते-न सर्वे सम्यग्दृष्टयः, किन्तु
र सम्यग्दृष्टयः सद्धर्मबहुमानादेव तत्र प्रमुदिता भवन्त्यभिगदेवानां दृष्टिः
दाट च्छन्ति च । मिथ्यादृष्टयोऽपि च लोकचित्तानुरोधादिन्द्रानुवृत्त्या परस्परदर्शनात् पूर्वानुचरितमिति च प्रमोदं भजन्तेऽभिगच्छन्ति च । लौकान्तिकास्तु सर्व एव विशुद्धभावाः सद्धर्मबहुमानात् संसारदुःखार्तानां च सत्त्वानामनुकम्पया भगवतां परमर्षीणामहतां जन्मादिषु विशेषतः प्रमुदिता भवन्ति । अभिनिष्क्रमणाय च कृतसङ्कल्पान् भगवतोऽभिगम्य प्रहृष्टमनसः स्तुवन्ति सभाजयन्ति चेति ॥ २४ ॥
अत्राह-के पुनर्लोकान्तिकाः कतिविधा वेति? अत्रोच्यते
टी०-अत्राह-किं देवाः सर्व एवेति भाष्यम् । कल्पवासिनस्तावत् सुखासक्ता अपि सन्तो भगवतां त्रिलोकबन्धूनामहतां जन्मनिष्क्रमणज्ञानोत्पत्तिमहासमवसरणनिर्वाणकालेष्वनुभावतो ज्ञानाचासीना शिविताः स्थिताः प्रस्थिता वा सहसैवासनचलनाद् दशेनविशुद्धिभत्यनुवृत्त्यनुरागानन्यसदृशतीर्थकरनामकर्मोदयविभूतिजनितकुतूहलसद्धर्मबहुमानसंशयच्छेदापूर्वप्रश्नानुभावाद्यनेककारणनोदिताः प्रायस्तीर्थकरपादान्तिकमत्यन्तैकान्तहितमभ्येत्य स्तुतिवन्दमपूजनोपासनधर्मश्रवणैः स्वपरश्रद्धासंवेगजननैरात्मानमपनीतकल्मषं कुर्वन्ति । ग्रैवेयकादयस्तु यथावस्थिता एव कायवाभिरभ्युत्थानाञ्जलिप्रणिपाततथागुणवचनैकाठ्यभावनाभिर्भगवतोऽहतो नमस्यन्ति । न च सर्वे देवाः सम्यग्दृष्टयः, किन्तु मिथ्यादृष्टयोऽपि वि(अभि)हितानेककारणाः पूजामर्हतां विदधत इति । लौकान्तिकास्तु सर्वे सम्यग्दृष्टयो ऽवश्यं चाहचरणमूलमायान्त्यर्हदादिसंवेगप्रशंसार्थमात्महितार्थ चेति ॥२४॥
अत्राहेत्यादिपातनिकाग्रन्थः । कस्मिन् पुनः कल्पे विमाने वा लोकान्तिका देवाः प्रतिवसन्ति कतिविधा [ भेदा ] वा इति ? । अत्रोच्यते- सूत्रम् ब्रह्मलोकालया लोकान्तिकाः ॥ ४--२५ ॥
भा०-ब्रह्मलोकालया एव लोकान्तिका भवन्ति नान्यकल्पेषु, नापि परतः। ब्रह्मलोकं परिवृत्याष्टासु दिक्षु अष्टविकल्पा भवन्ति ॥ २५॥ तद्यथा• टी०-ब्रह्मलोकालया व लोकान्तिका भवन्तीत्यादि भाष्यम् । सामर्थ्यलभ्यमेवकारं दर्शयति, अवधारणामा च, नान्यकल्पेषु नापि परतो ग्रैवेयकादिष्विति । लोकान्ते भवाः लोकान्तिकाः, अत्र प्रस्तुतत्वात् ब्रह्मलोक एव परिगृह्यते, तदन्तनिवासिनो लोकान्तिकाः,सर्वब्रह्मलोकदेवानां लोकान्तिकत्वप्रसङ्ग इति चेत, न, लोकान्तोपश्लेषात्, जराम
१ 'लौका०' इति ग-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org