________________
सूत्रे २३-२४ ]
स्वोपज्ञभाष्य–टीकालङ्कृतम्
३०५
षाण्मासिकी भवति, ततः परं विच्छिद्यन्तेऽन्तर्मुहूर्त, ततः पुनरनुवर्तते । उपपातोऽधुना, अच्युतात् परमन्यलिङ्गेन नोपपातोऽस्ति मिथ्यादृष्टेः, स्वलिङ्गिनामिति साधुवेषधारिणां भिन्नशनानां मिथ्यादृशां यावदुपरितनग्रैवेयाणि तावदुपपातः, सम्यग्दृशस्तु साधोः सौधर्मादारभ्य यावत् सर्वार्थसिद्धविमानं तावदुपपातः । अयं चापरो नियमः - ब्रह्मलोकादधश्चतुर्दशपूर्वधरो नोपपद्यते, परतस्तु सर्वार्थसिद्धविमानावधिक उत्पादः । शेषं मुज्ञानम् || २२ ॥ अत्राह - त्रयाणामित्यादिसम्बन्धग्रन्थः । भवनवासिव्यन्तरज्योतिष्काणां द्रव्यलेश्यानियमोऽभिहितः, वैमानिकानां तु केषां का द्रव्यलेश्या ? तत आह
सूत्रम् -- पीत पद्मशुक्ललेश्या द्वित्रिशेषेषु ॥ ४ - २३ ॥
भा०—उपर्युपरि वैमानिकाः सौधर्मादिषु द्वयोस्त्रिषु शेषेषु च पीतपद्मशुक्लृलेश्या भवन्ति यथासङ्ख्यम् । द्वयोः पीतलेश्याः सौधर्मेशानयोः, त्रिषु पद्मलेश्याः सनत्कुमारमाहेन्द्र ब्रह्मलोकेषु । शेषेषु लान्तकादिषु आ सर्वार्थसिद्धाच्छुक्ललेश्याः । उपर्युपरि तु विशुद्धतरेत्युक्तम् ॥ २३ ॥ अत्राह-उक्तं भवता - द्विविधा वैमानिका देवा:- कल्पोपपन्नाः कल्पातीताश्च (सू०१८ ) इति । ततः के कल्पा इत्यत्रोच्यतेटी० -- पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु । पूर्वत्र बहुव्रीहिरुत्तरत्र द्वन्द्व:, यथासङ्ख्यं चाभिसम्बन्धः कार्यः । उपर्युपरि वैमानिका इत्यादि भाष्यम् । समानत्वे सत्यप्युपर्युपरि विशुद्धिप्रकर्षः, सौधर्मेशानयोः कनकवच्छुचयः सुराः, सनत्कुमारमाहेन्द्रब्रह्मलोकेषु पद्मदलत्विषः । लान्तकादिषु धवलरुचयः सर्वार्थसिद्धपर्यवसानेषु, भावलेश्याः पुनरध्यवसायरूपत्वात् षडपि वैमानिकानां सन्तीत्यवगन्तव्यम् । अपरे वर्णयन्ति - भावलेश्या नियमोज्यम्, स तु न सुष्ठु सङ्गच्छत इति नाद्रियते, एकप्रदेशे सर्वदेवानां लेश्याविधानं किमिति न कृतं चेत्, तन्न, सुखप्रबोधत्वाद् व्यतिकरनिवृत्त्यर्थत्वाच्चेति ॥ २३ ॥
वैमानिकानां लेश्याः
-
अत्राह-उक्तं भवतेत्यादिपातनिकाग्रन्थः । द्विविधा वैमानिका इति प्रागभिहितंकल्पवासिनः कल्पातीताश्च तत् के पुनः कल्पा इति । अत्रोच्यते-
सूत्रम् - प्राग् ग्रैवेयकेभ्यः कल्पाः || ४–२४ ॥
भा० - प्राग् ग्रैवेयकेभ्यः कल्पा भवन्ति, सौधर्मादय आरणाच्युतपर्यन्ता इत्यर्थः । अतोऽन्ये कल्पातीताः ॥ २४ ॥
टी० – विविधविमानाश्रया व्याख्यातसख्याविशेषा ग्रैवेयकेभ्य आरात् कल्पा भवन्ति, शेषविषयसम्बन्धे दिग्लक्षणा पञ्चमी, कल्पशब्द उक्तार्थः । इन्द्रादिदशकल्पनात्मकत्वात् कल्पाः, सौधर्मादयो ऽच्युतपर्यवसाना इति ॥ शेषाः कल्पातीता इति ॥ २४ ॥
१ 'रुचः' इति क-पाठः । ३९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org