SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ ३१४ तत्त्वार्थाधिगमसूत्रम् अथ व्यन्तराणां परा स्थितिः कीदृशीत्याह - सूत्रम् - परा पल्योपमम् ॥ ४-४७ ॥ भा० - व्यन्तराणां परा स्थितिः पल्योपमं भवति ॥ ४७ ॥ टी - व्यन्तरदेवानां पल्योपममुत्कृष्टा, व्यन्तरीणामुत्कर्षेण पल्योपमार्धमिति ॥ ४७॥ अथ ज्योतिष्काणामुत्कृष्टस्थित्यभिधित्सया ग्राह सूत्रम् - ज्योतिष्काणामधिकम् ॥ ४-४८ ॥ भा०-- ज्योतिष्काणां देवानामधिकं पल्योपमं स्थितिर्भवति ॥ ४८ ॥ टी० - पल्योपममित्यनुवर्तते, तदधिकं ज्योतिष्कदेवानामुत्कृष्टा स्थितिः सूर्यदेवस्य वर्षसहस्राधिकं पल्योपमम्, चन्द्रमसो वर्षलक्षाधिकं तदेव, ज्योतिष्कदेवीनामुत्कर्षेण पल्योपमा पञ्चाशद्भिर्वर्षसह सैरभ्यधिकमिति ॥ ४८ ॥ सूत्रम् — ग्रहाणामेकम् ॥ ४-४९ ॥ भा० – ग्रहाणामेकं पल्योपमं परा स्थितिर्भवति ॥ ४९ ॥ टी० - पल्योपममभिसम्बन्ध्यते, अङ्गारकादीनामिति ॥ ४९ ॥ सूत्रम् - नक्षत्राणामर्धम् ॥ ४-५० ॥ भा०- नक्षत्राणां देवानामर्धपल्योपमं परा स्थितिर्भवति ॥ ५० ॥ टी० – अश्विन्यादीनां पल्योपमार्धं स्थितिः परेति ॥ ५० ॥ सूत्रम् - तारकाणां चतुर्भागः ॥ ४-५१ ॥ भा० - तारकाणां च पल्योपमचतुर्भागः परा स्थितिर्भवति ॥ ५१ ॥ टी०--परा स्थितिः पल्योपमचतुर्भागस्तारकाणामिति ॥ ५१ ॥ [ अध्यायः ४ सूत्रम् — जघन्या त्वष्टभागः ॥ ४-५२ ॥ भा०- तारकाणां तु जघन्या स्थितिः, पल्योपमाष्टभागः ॥ ५२ ॥ टी० - तारकाणां पल्योपमाष्टभागो जघन्येति ॥ ५२ ॥ सूत्रम् - - चतुर्भागः शेषाणाम् ॥ ४-५३ ॥ भा० - तारकाभ्यः शेषाणां ज्योतिष्काणां चतुर्भागः पल्योपमस्यापरा स्थितिरिति ॥ ५३ ॥ टी० - तारकव्यतिरिक्तज्योतिष्काणां ग्रहनक्षत्राणां जघन्या स्थितिः पल्योपमचतुर्भागो वेदितव्येति ॥ ५३ ॥ ॥ इति श्रीतत्त्वार्थसङ्ग्रहे अर्हत्प्रवचने भाष्यानुसारिण्यां टीकायां देवगतिप्रदर्शनो नाम चतुर्थोऽध्यायः ॥ ॥ इति चतुर्थोऽध्यायः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy