________________
सूत्रं २१] स्वोपज्ञभाष्य-टीकालङ्कृतम्
२९९ 'कुलकुक्षिग्रीवाभ्यः श्वास्यलङ्कारेषु' (पा० अ०४, पा०२, सू० ९६ ) वदत्र ग्रीवायां प्रायो भवा ग्रैवेयकाः, तथा ग्रीव्या इति भाष्यकृतोपन्यस्तं ग्रीवायां साधवो ग्रीव्या इति स्याद् व्युत्पत्तिः॥
भा०-अनुत्तराः पञ्च देवनामान एव । विजिता अभ्युदयविघ्नहेतवः एभिरिति विजयवैजयन्तजयन्ताः । तैरेव विघ्नहेतभिन पराजिता अपराजिताः ।
अनुत्तराणां सर्वेष्वभ्युदयार्थेषु सिद्धाः सर्वार्थेश्च सिद्धाः सर्वे चैषामभ्युदपञ्चविधत्वम् यार्थाः सिद्धा इति सर्वार्थसिद्धाः। विजितप्रायाणि वा कर्माण्येभिरुपस्थितभद्राः परीषहैरपराजिताः सर्वार्थेषु सिद्धाः सिद्धप्रायोत्तमार्था इति विजयादय इति ॥ २० ॥
टी.-अनुत्तराः पञ्चेत्यादि । विमानविशेषाः पञ्च सर्वोपर्यनुत्तराः अविद्यमानमुत्तरमन्यद् विमानादि येषां तेऽनुत्तराः देवनामान एव ते विमानविशेषाः । विजिता अभिभूताः, अभ्युदयः-स्वर्गस्तस्य विघ्नहेतवो निरस्ता एभिर्देवैरिति विजयवैजयन्तजयन्ताः, ते हि सकलानभ्युदयविधातहेतूनपास्य हस्तेकृत्य स्वर्गसुखसन्दोहरसमुपभुञ्जते । तैरेव चाभ्युदयविधातहेतुभिर्न पराजिता इत्यपराजिताः । सर्वेष्वभ्युदयार्थेषु सिद्धाः सर्वार्थसिद्धाः आभ्युदयिकसुखप्रकर्षवर्तित्वात् सर्वप्रयोजनेष्वव्याहतशक्तयः सर्वार्थसिद्धाः । अथवा सर्वार्थेश्च सिद्धाः। चशब्दो वाशब्दार्थः । सर्वैर्वाऽतिशयवद्भिः शब्दादिभिरतिमनोहरैः सिद्धाः प्रख्याताः सर्वार्थसिद्धाः, सर्वे चैषामभ्युदयार्थाः सिद्धाः सर्वार्थसिद्धा इति निरवशेषमभ्युदयप्रयोजनप्रतिष्ठत्वाद् वा सर्वार्थसिद्धा इति । अयमपरः कल्पः-विजितप्रायाणि वेत्यादि, प्रतनुकर्मपटलावच्छन्नत्वात् प्रत्यासन्नानवद्यसुखनिर्भरसिद्धिवधृसमागमत्वादुपस्थितपरमकल्याणाः साधुजन्मनि परीषहैरपराजिताः सन्तो मरणादुत्तरमपराजिता एव देवाः समुत्पन्नाः, तत्र वा सततप्तत्वान्न क्षुदादिभिः पराजीयन्त इत्यपराजिताः, तथा सर्वकर्तव्यतायाः परिसमाप्तेः सांसारिक्याः सर्वार्थसिद्धाः, सिद्धप्राय उत्तमार्थो येषां सकलकर्मक्षयलक्षणो मोक्षोऽनन्तरागामिजन्मभावित्वात् ते सर्वार्थसिद्धाः । एवं विजयादय इति । एवम्-एतेन प्रकारेण विजयादयोऽपि सर्वार्थसिद्धा एव । तथापि तु काचित् कचित् प्रसिद्धतरा भवति गमनाद् गौर्यथेति ॥२०॥
तत्राधिगतानुपूर्वीकाः दिवौकसः प्रकृताःसूत्रम्-स्थितिप्रभावसुखद्युतिलेश्याविशुद्धीन्द्रियावधिविषयतो
ऽधिकाः ॥ ४-२१॥ भा०-यथाक्रमं चैतेषु सौधर्मादिषु उपर्युपरि देवाः पूर्वतः पूर्वत एभिः स्थित्या १ 'स्वास्यलारेखुढवुन्' इति ग-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org