________________
२९८
तत्वार्थाधिगमसूत्रम्
[ अध्यायः ४
सौधर्मस्य कल्पस्योपरि ऐशानः कल्पः । ऐशानस्योपरि सनत्कुमारः । सनत्कुमारस्योपरि माहेन्द्र इत्येवमा सर्वार्थसिद्धादिति ॥
टी० - एतेषु सौधर्मादिष्वित्यादि भाष्यम् । कल्पः समुदायः सन्निवेशो विमानमात्रपृथिवीप्रस्तारः, स निमित्तभेदाद् द्वादशधा उपर्यवस्थितः । तद्यथा-ज्योतिष्कोपरितनप्रस्तारादसङ्ख्येययोजनमध्वानमारुह्य मेरुपलक्षितदक्षिणभागार्धव्यवस्थितः प्राक् तावत् सौधर्मः कल्पः प्राचीप्रतीच्यायत उदग्दक्षिणविस्तीर्णोऽर्धचन्द्राकृतिरर्चिर्मालीव भास्वरोऽसङ्ख्येययोtantrata आयामविष्कम्भाभ्यां परिक्षेपतश्च सर्वरत्नमयो लोकान्तविस्तारो मध्यव्यवस्थित सर्वरत्नमयाशोकसप्तपर्णचम्पकचूतसौधर्मावतंसकोपशोभितशक्रावासः, तस्यैवरूपस्योपरि सौधर्मस्य ऐशानकल्पः । सोऽप्येवंविध एवोदग्रव्यवस्थितः ईषदुपरितनकोट्या समुच्छ्रिततरो मध्यव्यवस्थिताङ्कस्फटिकरजतजातरूपेशानावतंसकविभूषितः । सौधर्मस्योपरि बहूनि योजनान्यतिक्रम्य समश्रेणिव्यवस्थितः सनत्कुमारः कल्पः सौधर्मवद् द्रष्टव्यः, एवमैशानस्योपरि माहेन्द्रसम्मुच्छ्रिततरो परितन कोटिरै शानवदवगन्तव्यः । सनत्कुमार माहेन्द्रकल्पयोरुपरि बहूनि योजना - न्यतीत्य मध्यवर्ती सकलनिशाकराकृतिर्ब्रह्मलोकनामकल्पः । अत्र लोकग्रहणं लोकान्तिकदेवप्रतिपत्त्यर्थम् । ते हि किल भक्तिप्रवणीकृतचेतसः सर्वदा जिनेन्द्रजन्मादिप्रलोकनपराः शुभाध्यवसायप्रायाः परिवसन्तीति । एवमुपर्युपरि लान्तकमहाशुक्रसहस्रारास्त्रयः कल्पाः प्रतिपत्तव्याः । अत्र च सूत्रे सूरिणा सप्त सप्तम्य उपात्ताः, ताश्च लघीयस्त्वावस्थितेरधः क्रमप्रदर्शनार्था इति, तत उपरि बहूनि योजनान्यतिलङ्घ्य सौधर्मैशानकल्पद्वयवदानतप्राणतनामानौ द्वौ कल्पाववस्थिताविति, तदुपरि समश्रेणिव्यवस्थितौ सनत्कुमारमाहेन्द्रवदारणाच्युतावित्येवं द्वादश कल्पाः । तत उपरि ग्रैवेयकानि नवोपर्युपरि तदुपरि च पञ्च महाविमानानि इत्येष वैमानिकदेवानामवच्छेद इति ॥
सौधर्मकल्पादीनां वर्णनम्
भा०- सुधर्मा नाम शक्रस्य देवेन्द्रस्य सभा, सा तस्मिन्नस्तीति सौधर्मः कल्पः । ईशानस्य देवराजस्य निवास ऐशानः, इत्येवमिन्द्राणां निवासयोगाभिख्याः सर्वे कल्पाः । ग्रैवेयकास्तु लोकपुरुषस्य ग्रीवाप्रदेशविनिविष्टा ग्रीवाभरणभूता यैवा ग्रीव्या ग्रैवेया ग्रैवेयका इति ॥
टी० – कल्पमध्यवर्तिनी सुधर्मा नाम शक्रस्य तन्निवासिसुराधिपतेः सभा, सातस्मिन् कल्पेऽस्तीति सौधर्मः, चातुरर्थिकोऽण् । ईशानस्य देवराजस्य निवासः ऐशान इति, तस्य निवाससम्बन्धेनाण् । एवमुपरितनाः सर्वेऽपीन्द्राणां निवासयोगाभिख्याः कल्पाः । ग्रैवेयकास्तु लोक पुरुषस्य ग्रीवाभरणभूताः उपचाराल्लोक एव पुरुषस्तस्य ग्रीवेव ग्रीवा तस्यां भवा ग्रैवा ग्रैवेया च ' ग्रीवाभ्योऽण्च' ( पा० अ०४, पा०३, सू०५७ ) इति । तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org