________________
सूत्राणि १८-२० ] स्वोपज्ञभाष्य टीकालङ्कृतम्
२९७ टी-चतुर्थो देवनिकाय इत्यादि भाष्यम् । चतुर्णा पूरणश्चतुर्थः देवनिकायः-सुरसमूहः नामतो चैमानिकाः,तेऽत:-इतः प्रभृत्यूर्व प्राक् स्थितेः वक्ष्यन्ते, विशेषेण सुकृतिनो मानयन्ति विमानानि तेषु भवा वैमानिका देवा इत्यतः प्रतिसूत्रमवचनमधिकारात्, अथवा परस्परस्य भोगातिशयं तत्रस्थं मिमत इति मन्यते वा हिताहितविज्ञानात्, तानि च त्रिविधान्येव भवन्ति-इन्द्रकश्रेणिपुष्पप्रकीर्णकानि । सर्वत्रान्वर्था पारिभाषिकी व्याख्या, तेषु भवा वैमानिका इति ॥ १७ ॥ ते पुनरनेकविशेषर्द्धियुक्ता विमानवासिनो देवा मूलभेदतो द्विविधाः
सूत्रम्-कल्पोपपन्नाः कल्पातीताश्च ॥ ४–१८ ॥
__ भा०-विविधा वैमानिका देवाः-कल्पोपपन्नाः कल्पातीताश्च । वैमानिकानां वैविध्यम् तान् परस्तात् वक्ष्याम इति ॥१८॥
टी-कल्पोपपन्नाः इन्द्रादिदशतया कल्पनात् कल्पाः-सौधर्मादयोऽच्युतान्ताः तेषूपपन्नाः कल्पोपपन्नाः, कल्पानतीताः कल्पातीताः उपरिष्ठाः सर्वे ग्रैवेयकविमानपञ्चकाधिवासिनः। विविधा वैमानिका इत्यादि भाष्य सुज्ञानं प्रायः । तान् द्विप्रकारानपि परस्तात् प्रभेदतो वक्ष्याम इति ॥ १८ ॥ एतेषु पुनः कल्पाः कथं सन्निविष्टा इत्याह
सूत्रम्-उपर्युपरि ॥ ४--१९॥ भा०-उपर्युपरि च यथानिर्देशं वेदितव्याः । नैकक्षेत्रे नापि तिर्यगधो वेति ॥ १९ ॥
टी०-उपर्युपरि चेत्यादि भाष्यम् । कल्पाः सम्बध्यन्ते, न देवा विमानानि वा, योऽयं निर्देशः करिष्यते सौधर्मादिस्तदङ्गीकरणेन वेदितव्याः यथानिर्देशं, नैकक्षेत्रे वर्तिनः कल्पाः, नैकस्मिन् प्रदेशे वर्तन्त इत्यर्थः।नापि तिर्यक प्रतिसन्निवेशेन व्यवस्थिताः, नाधस्तादिति ॥ १९॥
ते चामी क्रमात्
सूत्रम्-सौधर्मेशान-सनत्कुमार-माहेन्द्र-ब्रह्मलोक-लान्तकमहाशुक्र-सहस्रारेष्वानतप्राणतयोरारणाच्युतयोनवसु अवेयकेषु विजय-वैजयन्त-जयन्तापराजितेषु सर्वार्थसिद्धे च ॥ ४-२० ॥
भा०-एतेषु सौधर्मादिषु कल्पविमानेषु वैमानिका देवा भवन्ति । तद्यथा१ उपर्युपरि न तिर्यग् नाप्यसमजसं ज्योतिष्कविमानवत् ' इति ग-टी-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org