________________
२९६ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ४ यापन्नः कालविभागो ज्ञेय इति । एवमादिरित्यनेनानेकभेदत्वमादर्शयति । कालस्य पुद्गलपरावर्तादेः, सर्वाद्धादिश्चानन्तः काल इति । मनुष्यक्षेत्रपर्यायापन इति परिमितदेशवतित्वं कालस्यावगमयति । इह प्रसिद्धनान्यत्रापि वर्तमाना देवतादयो व्यवहरन्ति, कालस्य समूहबुद्धयाऽङ्गीकृतस्य समयादिविभागो वेदितव्यः इति, असङ्ख्येयत्वमनन्तत्वं च कालस्य भाष्यादेव परिगन्तव्यम् । गणित विषयातीतोऽसङ्ख्येयः, अविद्यमानोऽन्तोऽनन्त इति ॥१५॥
अत्राह-यदि ज्योतिष्का मेरुप्रदक्षिणा नित्यगतयो नृलोके ( अ० ४, सू० १४) भवन्ति अथ ये बहिर्नृलोकात् ते कथमित्यत्रोच्यते
सूत्रम्-बहिरवस्थिताः॥४-१६ ॥
भा०-नलोकादू बहियोतिष्काः अवस्थिताः, अवनृलोकबहियोतिकविचारः
- स्थिता इत्यविचारिणः, अवस्थितविमानप्रदेशा अवस्थितले
श्याप्रकाशा इत्यर्थः । सुखशीतोष्णरश्मयश्चेति ॥१६॥ टी०-नृलोकाद् बहिरवस्थिता ज्योतिष्का इत्यादि भाष्यम् । नृलोकादित्यर्थवशाद विभक्तिपरिणतिः। मानुषोत्तरगिरेवहिर्ये सूर्यादयस्तेऽवस्थिताः-न परिभ्रमन्ति स्वभावादेवाविचारिणो देवाः। अवस्थितविमानप्रदेशा इति विमानानां प्रदेशा-बुध्नाः प्रतिष्ठास्थानानि, अवस्थिता विमानप्रदेशा येषां तेऽवस्थितविमानप्रदेशाः निश्चलत्वान्न देवाः परिभ्रमन्त्येवं न विमानानि यथा नृलोक इति प्रतिपादयति, अवस्थितलेश्याप्रकाशा इत्यर्थः। अवस्थितौ लेश्याप्रकाशौ येषां तेऽवस्थितलेश्याप्रकाशाः, लेश्या-वर्णः,स नृलोकान्तवर्तिनामुपरागादिभिरन्यत्वमपि प्रतिपद्यते, तदहिवर्तिनां तु तदभावादवस्थितपीतवर्णत्वम्, प्रकाशोऽप्यवस्थितस्तेषां योजनशतसहस्रपरिमाणो निष्कम्पत्वादस्तमयोदयाभावाञ्चेति, अवस्थितशब्दव्याख्यानाविच्छेदाभिप्रायेण सूरिरित्यर्थ इति प्रयुक्तवान् । सुखशीतोष्णरश्मयश्चेति । सुखाः शीतोष्णरश्मयो येषां ते सुखशीतोष्णरश्मयः चन्द्राः सवितारश्च, नात्यन्तशीताः शिशिरत्विषः, नात्यन्तोष्णाः किरणमालिनः किरणाः, किन्तु द्वयोरपि साधारणाः स्वभावादेवेत्यतः सुखहेतुत्वात् सुखाः, सर्वशशाङ्काच बहिरभिजिता युक्ताः, सवितारश्च पुष्यैरिति ॥ १६॥
उक्ता ज्योतिष्काः स्थानादिप्रक्रमेण । अथ तुरीयो देवनिकायः किंनामा कतिभेदो वेत्यत्रोच्यते-वैमानिकाः । अथवा तत्राभिहितलक्षणाधिवासविशेषेभ्यस्तुर्यो देवनिकायो यस्तस्य विकल्पव्याख्याप्रसङ्गे लघ्वर्थमादितः प्राक स्थितेः प्रतिसूत्रमिदमवोचमित्यध्यकार्षीत्, स्थानसम्बन्धेन यानुपदेक्ष्यामः, सर्व एवैते
सूत्रम्-वैमानिकाः ॥४-१७ ॥ भा०-चतुर्थो देवनिकायो वैमानिकाः,तेऽत ऊर्ध्वं वक्ष्यन्ते । विमानेषु भवा वैमानिकाः॥१७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org