________________
सूत्रं १५] स्वोपज्ञभाष्य-टीकालङ्कृतम्
२९५ सुषमा। द्वे सागरोपमकोटीकोटयौ सुषमदुष्षमा। द्विचत्वारिंशद्वर्षसहस्राणि हित्वा चैका कोटीनां कोटी दुष्षमसुषमा। एकविंशतिवर्षसहस्राणि दुष्षमा । तावत्येव दुषमदुष्षमा, एकविंशतिवर्षसहस्राणीत्यर्थः।।
भा०-एताः अनुलोमप्रतिलोमा अवसर्पिण्यत्सर्पियोर्भरतैरावतेष्वनाद्यनन्तं परिवर्तन्ते अहोरात्रवत् । तयोः शरीरायुःशुभपरिणामानामनन्तगुणे
हानिवृद्धी । अशुभपारिणांमानां वृद्धिहानी । अवस्थिताऽक्षेत्रापेक्षया कालविचारः न वस्थितगुणाश्चैकैकाऽन्यत्र । तद्यथा-कुरुषु सुषमसुषमा, हरि
रम्यकवासेषु सुषमा, हैमवतहैरण्यवतेषु सुषमदुष्षमानुभावः, विदेहेषु सान्तरद्वीपेषु दुष्षमसुषमा इति,एवमादिमनुष्यक्षेत्रे पर्यायापन्नः कालविभागो ज्ञेय इति ॥१५॥
टी०–एताः सुषमदुष्षमाद्या यथोपन्यस्ता आनुलोम्येन षडप्यवसर्पिणीनामकालः शरीरोच्छायायुष्ककल्पवृक्षादिपरिहाणेर्दशसागरोपमकोटीकोट्यः परिमाणतः। तथा प्रातिलोम्येनोत्सर्पिणीनामकालः शरीरोच्छ्रायादिपरिवृद्धेर्दशसागरोपमकोटीकोव्य एव परिमाणतः । एतच्चोत्सर्पिण्यवसर्पिणीकालचक्रकं पञ्चसु भरतेष्वैरावतेषु पञ्चस्वनाद्यन्तं परिवर्तते, यथाऽहोरात्रे-वासरो रजनी वा न शक्यते निरूपयितुमादित्वेनान्तत्वेन वाऽनादित्वादहोरात्रचक्रकप्रवृतेस्तथैतदपीति । तत्रावसर्पिण्या शरीरोच्छायादेरनन्तगुणपरिहाणिः परतः परतः। सुषमसुषमायां गव्यूतत्रितयं शरीरोच्छायो मनुष्याणामायुस्त्रीणि पल्योपमानि शुभपरिणामोऽपि कल्पवृक्षादिरनेकः । सुषमायां गव्यूतद्वयं पल्योपमद्वयं कल्पवृक्षादिपरिणामश्च शुभो हीनतरः । सुषम
. दुष्पमायामेकं गव्यूतमेकं पल्योपमं हीनतरश्च कल्पवृक्षादिपरिणामः । दुकालचक्रे शरीरोछायादिविचारः । पमसुषमायां पञ्चधनुःशतप्रभृति सप्तहस्तान्तं शरीरप्रमाणमायुरपि पूर्वलक्ष
पनामा पञ्चधनुशतप्रभृति सप्तहस्तान्त शरा
परिमाणं परिहीनश्च कल्पवृक्षादिपरिणामः । दुष्षमायामनियतं शरीरप्रमाणमायुरप्यनियतं वर्षशतादर्वाक पर्यन्ते विंशतिवर्षाणि परमायुः शरीरोच्छायो हस्तद्वयं औषधिवीर्यपरिहाणिरनन्तगुणेति । अतिदुष्षमायामप्यनियतं शरीरोच्छ्रायादि सर्व पर्यन्ते तु हस्तप्रमाणं वपुः परमायुः षोडश वर्षाणि निरवशेषौषधिपरिहाणिश्चेति, एवं वृद्धिः प्रातिलोम्येन वक्तव्या । अशुभानां परिमाणविशेषाणामवसर्पिण्यां वृद्धिरुत्सर्पिण्यां हानिरिति । अवस्थिता स्वरूपेण न भ्रमति । ये च गुणास्तस्यां ते चावस्थिताः कल्पवृक्षादिपरिणामविशेषाः अतोऽवस्थिता (वस्थितगुणा) चान्यत्रैकैका सुषमसुषमादिभवति, तद्यथा-देवकुरूत्तरकुरुषुसुषमसुषमानुभावाःसर्वदावस्थिताः,हरिरम्यकवास्येषु सुषमानुभावोऽवस्थितः, हैमवतहरण्यवतेषु सुषमदुष्षमानुभावोऽवस्थितः,विदेहक्षेत्रेषु षट्पञ्चाशत्सु चान्तरद्वीपेषु दुष्षमसुषमानुभावोऽवस्थितः । एवमादिर्मनुष्यक्षेत्र पर्या
१ 'ताः' इति घ-पाठः । २ 'गुण' इति घ-पाठः । ३ ' ०णामवृद्धिः' इति घ-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org