________________
श्रावकानन्दटीकेयं, नवपदस्य प्रकीर्तिता। जिनचन्द्रगणिनाम्ना, तु गच्छे 'ऊकेश' संज्ञके ॥३॥ कत्कदाचार्यशिष्येण, कुलचन्द्रसंहितेन च ।
तेनैषा मूत्रिता टीका, निर्जरार्थं तु कर्मणाम् ॥ ४॥" अपरश्च प्राचीनगुर्जरकाव्यसङ्घहे नवमे परिशिष्टेऽयमुल्लेखोऽपि हेतु:
" संवत् १४१४ (१) वर्षे वैशापसु १० गुरौ संघपतिदेसलसुत सा० समरसमरश्रीयुग्मं सा० सालिंगसा० सज्जनसिंहाभ्यां कारितं । प्रतिष्ठितं श्रीककसरिशिष्यैः श्रीदेवगुप्तसूरिभिः । शुभं भवतु ॥"
एवं विरोधापत्तौ सत्यां सम्भवेदेतत्-गुर्वावलीकारेणाल्पकालीनाचार्यपदावस्थादिकारणात् सिद्धसूरयो न प्रकाशिता भवेयुः। यद्वा श्रीकक्कसूरीणां श्रीसिद्धसरिदेवगुप्ताचार्यों इति द्वौ शिष्यौ वर्तेताम् ।
देवगुप्तसूरिविषये एवं विचारितेऽपि एकनामधारिणोरनयोर्विक्रमार्कीयैकादशशताब्द्यां विद्यमानयोरुकेशगच्छालङ्कारसूरिवर्ययोः कः सम्बन्धकारिकायाः विवरणनिर्माता इति नावधार्यते । अन्यः कोऽपि सदृशनामधारी मुनिवर्योऽपि व्याख्याता सम्भवेत् । निश्चयस्तु साधनाभावाद् दुःशकः।
श्रीसिद्धसेनगणयः
इमां टीका विहाय श्रीसिद्धसेनगणिभिः कोऽप्यन्यो ग्रन्थो निरमायीति न श्रुतिपथमवतीण, परन्तु आचाराग-विवाहप्रज्ञप्ति प्रज्ञापना-नन्दीसूत्र-दशाश्रुतस्कन्ध-दशवैकालिक-विशेषावश्यका-ऽऽवश्यकनियुक्ति-निशीथभाष्या-ऽनुयोगद्वार-प्रशमरतिपरिभाषेन्दुशेखर-पाणिनीयव्याकरणप्रमुखान्यान्यग्रन्थावतरणसमलङ्कतटीकावलोकनेनापि निश्चीयते तेषां विद्वत्त्वम् । इमे सुगृहीतनामधेया महर्षयः स्वजन्मना कदा का भूमि भूषयामासुरिति नावगम्यते साधनाभावात्, परन्तु तसंत्तासमयविचारोपयोगिनिम्नलिखितप्रशस्तितः स्फुटीभवति एतावद् यदिमे श्रीमदिन्नगणिक्षमाश्रमणशिष्यश्रीसिंहसूरीणां प्रशिष्याः श्रीभास्वामिनां तु शिष्याः । आसीद् दिन्नगणिः क्षमाश्रमणतां प्रापत् क्रमेणैव यो
विद्वत्सु प्रतिभागुणेन जयिना प्रख्यातकीर्तिभृशम् ।
१ अनेन संभाव्यते जिनचन्द्रगणेः कुलचन्द्रेत्यपरं नामधेयम् । २ अवतरणसची द्वितीये विभागे दास्यामि । ३ श्रीसिद्धसेनगणिसमयविचार करिष्ये द्वितीये विभागे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org