________________
वोढा शीलभरस्य सच्छुतनिधिर्मोक्षार्थिनामग्रणी
जेज्वालामलमुच्चकैर्निजतपस्तेजोभिरव्याहतम् ॥ १॥-शार्दूल. यत्र स्थितं प्रवचनं, पुस्तकनिरपेक्षमक्षतं विमलम् । शिष्यगणसम्प्रदेयं, जिनेन्द्रवत्राद् विनिष्क्रान्तम् ॥ २ ॥–आयो तस्याभूत् परवादिनिर्जयपटुः सैंहीं दधच्छूरतां
नाम्ना व्यज्यत सिंहसूर इति च ज्ञाताखिलार्थागमः । शिष्यः शिष्टजनप्रियः प्रियहितव्याहारचेष्टाश्रयाद् ___ भव्यानां शरणं भवौघपतनक्लेशार्दितानां भुवि ॥ ३॥–शार्दूल० निर्धततमःसंहतिरखण्डमण्डलशशाङ्कसच्छाया। अद्यापि यस्य कीर्तिभ्रमति दिगन्तानविश्रान्ता ॥ ४ ॥-आर्या० शिष्यस्तस्य बभूव राजिकशिरोरत्नप्रभाजालक
व्यासङ्गच्छुरितस्फुरनखमणिप्रोद्भासिपादद्वयः। भास्वामीति विजित्य ना(मा?)म जगृहे यस्तेजसां सम्पदा
भास्वन्तं भवनिर्जयोद्यतमतिर्विद्वज्जनाग्रेसरः ॥५॥-शार्दूल० क्षमया युक्तोऽतुलया, समस्तशास्त्रार्थविन्महाश्रमणः। गच्छाधिपगुणयोगाद् , गुणाधिपत्यं चकारार्थ्यम् ॥ ६॥--आर्या तत्पादरजोऽवयवः, स्वल्पागमशेमुषीकबहुजाड्यः । तत्त्वार्थशास्त्रटीका-मिमां व्यधात् सिद्धसेनगणिः ॥७॥--आर्या०
यद्यपि भाष्यानुसारिटीकाकाराणां श्रीसिद्धसेनगणीनां परिचयः तत्कृतप्रशस्तितः स्फुटीभवति, तथापि सिद्धसेनेतिनामधेयानां विविधसूरीणां विषये किञ्चिदपि वक्तुं नानावश्यकम् ।
१ श्रीसम्मतितर्कादिप्रौढग्रन्थप्रणेतारः तार्किकचूडामणयः कुमुदचन्द्रेत्यपरनामघेयाः कल्याणमन्दिरस्तोत्रकतारः श्रीसिद्धसेनदिवाकराः वृद्धवादिसूरिशिष्याः।
२ वादिकुञ्जरकेसरीत्यादिबिरुदधारिश्रीबप्पमहिनरिगुरवः श्रीसिद्धसेनसूरयः । ___३ श्रीबप्पभटिसरिसन्तानीययशोभद्रसूरिगच्छालङ्कारयशोदेवसूरिशिष्याः विला. सवईकहासूत्रधाराः साहारणेत्यपरनामकाः श्रीसिद्धसेनसूरयः।
४ प्रवचनसारोद्धारस्य सं० ११४२तमे वर्षे वृत्तिनिर्मातारः चन्द्रगच्छीयप्रद्युम्नसूरिपरम्परागतदेवभद्रशिष्याः सिद्धसेनसूरयः श्रीयशोदेवस्य गुरवः ।
५ बृहत्क्षेत्रसमासस्य सं० ११९२तमे वर्षे टीकाकाराः उपकेशगच्छीयदेवगुप्तसूरिशिष्याः श्रीसिद्धसेनसूरयः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org