SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ तेनैव स्वपदप्रतिष्ठिततनुः श्रीककरिप्रभु नोनाशास्त्रसुबोधबन्धुरमतिर्जज्ञे स विद्वानिह । मीमांसां जिनचैत्यवन्दनविविं पञ्चप्रमाणीं तथा । बुद्ध्वा यस्य कृतिं भवन्ति कृतिनः सद्बोधशुद्धाशयाः ॥५॥-शार्दूल. तत्पादपद्मद्वयचञ्चरीकः शिष्यस्तदीयोऽजनि सिद्धसूरिः। तसाद् बभूवोज्ज्वलशीलशाली त्रिगुप्तिगुप्तः खलु देवगुप्तः ॥६॥"-उपजातिः द्वितीयदेवगुप्तसूरयः पूर्वावस्थायां जिनचन्द्रगणीति नाम्ना प्रथिता नवतत्त्वप्रकरणप्रणेतार इति समाप्ति( पश्चदशम )गाथाविवरणात् स्फुटमेवावगम्यते । सा गाथा चेयम् " ईय एए नवतत्ता, सभेयभिन्ना उ संगहनिमित्तं ।। गणिणा जिणचंदेणं, सरणत्थं अप्पणो रहया ॥१॥" श्रीपशोदेवोपाध्यायनिर्मितं तद्विवरणं तु यथा " गणिना पाण्मासिकभगवत्यगोपधानोद्वहनावाप्तगणिनाम्ना जिनचन्द्रेण पूर्वावस्थानामैतत्, तस्योत्तरावस्थायां तु श्रीदेवगुप्ताचार्येणेत्यर्थः।" इमे जिनचन्द्रापराभिधानाः सूरयः श्रीकक्कसूरीणां शिष्याः न तु प्रशिष्या इति प्रतिभाति नवपदप्रकरणप्रान्तगाथादर्शनात् । सा चैवम् " ईइ नवपयं तु एवं, रइयं सीसेण ककसूरिस्स । गणिणा जिणचंदेणं, सरणत्थमणुग्गहत्थं च ॥१॥" एतत् समर्थ्यते नवपदलघुवृत्तिप्रशस्त्यापि । सा चेत्थम्" नवपदटीका प्रोक्ता, श्रावकानन्दकारिणी । श्रीदेवगुप्तसूरिभि-र्भावयितव्या प्रयत्नेन ॥१॥ त्रिसप्त्यधिकसहस्र (१०७३), मासे कार्तिकसंज्ञिते । श्रीपार्श्वनाथचैत्ये तु, दुर्गमाय च( त ? )पत्तने ।। २ ॥ १ छाया एवमेतानि नवतत्त्वानि समेदमिन्नानि तु सङ्ग्रहनिमित्तम् । गणिना जिनचन्द्रेण स्मरणार्थमात्मनो रचितानि ॥ २जिनचन्द्रसूरीणामन्तेवासी धनदेवेत्याद्यनामा। ३ छाया एवं नवपदं त्वेतद् रचितं शिष्येण कत्कसूरेः। गणिना जिनचन्द्रेण स्मरणार्थमनुग्रहार्थ च ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy