SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ २७ लिङ्गं द्विविध-द्रव्यलिङ्गं भावलिङ्गं च। भावलिङ्गं प्रतीत्य सर्वे पश्च निर्ग्रन्था लिङ्गिनो भवन्तीति । द्रव्यलिङ्ग प्रतीत्य भाज्याः।" अपरश्च श्रीतत्त्वार्थटिप्पणकस्य प्रान्तमागे सूत्रविषयकपाठभिन्नतान्यूनाधिकताया विचारणे अनौमास्वातिकानि एतत्स्थलानि इति निर्दिष्टं वर्तते, परन्तु तदुपरि यथायोग्यविचारकरणाय समयाभावात् न किमपि विवृणोमि । तत् तत एवावलोकयन्तु आलोकवन्तः। __ एवं सूत्रकाराणां श्वेतपटत्तसमर्थनसमर्थानां युक्तीनां सद्भावेऽपि दिगम्बरमान्यताऽस्मिन् समानविषयके ग्रन्थे नासम्भविनी, यतः कल्याणमन्दिर-भक्तामर-सिन्दूरपकरादयो ग्रन्थाः श्वेतपटीया अपि मान्यन्त एव दिपटीयैः। __ अन्ते सौहार्दहृदयेभ्यो दिगम्बरमहाशयेभ्यो विज्ञप्तिरियं मम-यदा उपरितनयुक्तिषु स्खलनाः सम्भवेयुः, सूत्रकाराणां दिक्पटत्वसिद्धौ भवत्सकाशे च सूत्रगवेषणपूर्विका युक्तयो वर्तेरन्, तर्हि तत्तनिवेदनेन कृपां कुर्वन्तु भवन्त इति ॥ टीकाविचार: असिन् ग्रन्थे तत्त्वार्थाधिगमसूत्रस्य सम्बन्धकारिकोपरि टीकाद्वयं वर्तते । तत्र प्रथमा वीरं प्रणम्येत्यायेकपद्यपूर्विका श्रीदेवगुप्तसूरिप्रणीता। द्वितीया तु श्रीसिद्धसेनमूरिप्रणीता जैनेन्द्रशासनेतिपश्चपद्यात्मिकाऽवतरणकलिता पूर्वापेक्षया संक्षिप्ततरा । भाष्यानुसारिणी टीका तु श्रीसिद्धसेनमूरिभिरेव सन्दृब्धेति श्रीदेवगुप्तमूरिकृतटीकाया अदर्शनादनुमीयते । परन्तु श्रीदेवगुप्तसूरिकृतायाः सम्बन्धकारिकाटीकायाः प्रान्ते "इतीयं कारिकाटीका, शास्त्रटीका चिकीर्षुणा ।। सन्दृब्धा देवगुप्तेन, प्रीतिधर्मार्थिना सता॥१॥" इत्युल्लेखे विलसति कमात तैः सूत्रटीका न व्यरचीति प्रश्नो विचारणीयः ॥ किं यथा श्रीमलयगिरिसूरय आवश्यकस्य बृहत्कल्पस्थ वृत्तिं रचयन्त एव कालं चक्रुस्तथैतेऽपि । ___टीकाकारपरिचितिः श्रीदेवगुप्तसूरयः श्रीदेवगुप्तनामानौ द्वौ सूरी इति स्पष्टमवगम्यते नवपदनवतत्त्वप्रकरणयोर्विवरणविन्यस्तनिम्नलिखितप्रशस्तितः " तत्रासीदतिशायिधुद्धिविभवश्वारित्रिणामग्रणीः सिद्धान्तार्णवपारगः स भगवान् श्रीदेवगुप्ताभिधः । सूरि रिगुणान्वितो जिनमतादुकृत्य येन स्वयं श्रोतृणां हितकाम्यया विरचिता भव्याः प्रबन्धा नवाः ॥४॥-शाईल. १ अयमेवोल्लेखः सर्वार्थसिद्धिटीकायां (पृ० २७० ) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy