SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ २६ कथं केवलिन्येकादश परीषहाः कथिताः १ न च क्षुत्पिपासयोः मोहोदयसहायीकृतक्षुधादि - वेदनीयजन्यत्वं सत्यमस्तीति वाच्यं, मोहोदयसहायी कृतक्षुधादिवेदनीयजन्यत्वस्य क्षुत्पिपासादिषु ' वेदनीये शेषाः ' ( अ० ९, सू० १६ ) इति सूत्रेण निराकृतत्वात् केवल वेदनीजन्यत्वस्य प्रतिपादनाच्च । अन्यच्च क्षुत्पिपासयोः मोहोदयसहायी कृत वेदनीयजन्यत्वं नास्तीति सयुक्तिकं प्रतिपादितं न्यायाचार्यन्यायविशारद महामहोपाध्याय श्रीयशोविजयपादैः अध्यात्ममतपरीक्षाग्रन्थे चतुस्त्रिंशदतिशयानां सिद्धिप्रसङ्गे । अपरञ्च यथा महाभावात् अदर्शनलाभ नाग्न्यारतित्री निषद्याक्रोशयाचनास त्कारपुरस्कारा इति एकादश परीषहाः केवलिषु न स्वीक्रियन्ते दिक्पटैरपि तथैव क्षुत्पिपासे अपि मोहोदय सहायकाभावात् न स्वीक्रियेतां तैः स्वीकारश्च तैः कृत इति विचारणीयं स्थलं विद्वद्भिः । " पुलाकबकुशकुशील निर्ग्रन्थ स्नातका निर्ग्रन्थाः ' ( अ० ९, सू० ४६ ) इति सूत्रस्य व्याख्यानावसरे पुलाकादीनां विशेषप्रतिपत्त्यर्थमुक्तं श्रीमद्भहाकलङ्कदेवैः 46 पुलाच कुशप्रतिसेवना कुशीलाः द्वयोः संयमयोः सामायिकच्छेदोपस्थापनयोर्भवन्ति । ........ बकुशो द्विविधः - उपकरणबकुशः शरीरबकुशचेति । तत्र उपकरणाभिष्वक्तचित्तो विविधविचित्र परिग्रहयुक्तः, बहुविशेषयुक्तोपकरणकाङ्क्षी तत्संस्कारप्रतीकारसेवी भिक्षुरुपकरण कुशो भवति । शरीरसंस्कारसेवी शरीरबकुशः । "" -तत्त्वार्थराजवार्तिके ( पृ० ३५९ ) एवं सति केवलकमण्डलु पिच्छिकायुक्तनन एव साधुः, न तु विशेषोपकरणयुक्तपरिग्रहधारी इति मन्यमानान् दिगम्बरीयान् प्रति प्रश्नोऽयम् यदि भवतां मते पिच्छिकाकमण्डलू विनाऽन्यस्योपकरणस्यास्वीकार एव, तर्हि उपर्युक्तलक्षणानां बकुशनिर्ग्रन्थानां निर्ग्रन्थत्वस्याभावः, तेषां उपकरणेषु सक्तचित्तत्वात्, विविधविचित्रपरिग्रहयुक्तत्वात्, बहुवि शेषयुक्तोपकरणकाङ्क्षित्वात्, तत्संस्कारप्रतीकारसेवित्वात् । यद्येषामपि निर्ग्रन्थत्वं स्वीक्रियते भवद्भिः तर्हि किं न धर्मोपकरणानां मुक्तेरबाधकता स्वीक्रियते १ । 'मूर्च्छा परिग्रहः' (अ० ७, सू० १२ ) इति परिग्रहलक्षणस्वीकारात् बकुशनिन्थेषु धर्मसाधनोपकरणसद्भावेऽपि मृच्छया अभावात् निर्ग्रन्थत्वं समस्ति इत्यभिप्रायेणेदं सूत्रमुपन्यस्तं सूत्रकारैः इति विरोधपरिहारकरणं दिक्पटानां स्वमतव्याघातभीतेः दुःशकम् । अपरच दिगम्बरस्वरूपलिङ्गिन एव निर्ग्रन्थाः इति मन्यमानैर्दिगम्बरैर्विचारणीयः तत्त्वार्थराजवार्तिककाराणामयं मुद्रालेख: १ सर्वार्थसिद्धिटीकायामप्येवंविध उल्लेखः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy