________________
नेति प्रतिभाति । अस्मिनभावे सिद्धे सूत्रकाराः श्वेताम्बरमतानुसारिण इति सण्टऋते । भगवतीप्रज्ञापनादिष्वागमेषु कालाणूनां प्रतिपादनं न कृतम्, एवं सति सूत्रकारैरपि आगमविरुद्धं सूत्रं न व्यरचि।
ननु कालाणून दिगम्बरा अपि नैव मन्यन्ते इति चेत्, तन्न, तत्त्वार्थराजवार्तिके (पृ० २२८ ) 'वर्तना परिणामक्रिया परत्वापरत्वे च कालस्य' (अ० ५, सू० २२) इति सूत्रस्य व्याख्याने निम्नलिखितोल्लेखात् ।।
"द्विविधः कालः-परमार्थकालः व्यवहाररूपश्चेति । तत्र परमार्थकालः वर्तनालिङ्गः गत्यादीनां धर्मादिवत् वर्तनाया उपकारकः । स किंखरूप इति चेत्, उच्यते-यावन्तो लोकाकाशे प्रदेशास्तावन्तः कालाणवः परस्परं प्रत्यबन्धाः एकैकस्मिन्नाकाशप्रदेशे एकैकवृत्त्या लोकव्यापिनः।"
सूत्रकाराभिप्रायेण निश्चयकालस्यास्वीकारात् तत्स्वरूपाः कालाणवोऽपि न भवेयुः, अत एव तैस्तेषामवगाहक्षेत्रं न प्रदर्शितं, 'मूलं नास्ति कुतः शाखा' इति न्यायात् ।
किञ्च यदि कालो मुख्यद्रव्यं स्यात् तर्हि 'अजीवकाया धर्माधर्माकाशपुद्गलाः' (अ० ५, सू०१) इत्यत्राजीवरूपेण तस्याप्युल्लेखः करणीयो भवेत् । ततोऽनन्तरसूत्रे 'ट्रेव्याणि जीवाश्च' इत्यत्र कालस्यापि मुख्यद्रव्यरूपेण गणना स्यात् । न च कृता सूत्रकारैः, तसान मुख्यद्रव्यरूपः कालः। न च 'गुणपर्यायवद् द्रव्यं ' (अ० ५, सू० ३८) इति द्रव्यस्य लक्षणकथनानन्तरं 'कालश्च' (अ० ५, सू० ३९) इति सूत्रेण कालस्यापि मुख्यद्रव्यत्वरूपेण सिद्धिर्भवतीति वाच्यम् । यदि तत्रोल्लेखकरणेऽपि सा सिद्धिर्भवेत्, तर्हि सर्वेषामपि द्रव्याणां मुख्यद्रव्यत्वसिद्धयर्थे तत्रैवोल्लेखः करणीयो भवेत्, न तु प्रथमतः । अपरश्च तत्रत्यं 'द्रव्याणी'ति सूत्रमपि निष्फलं स्यात् ॥
क्षुव-पिपासा-शीतो-ष्ण-दंशमशक-चर्या-शय्या-वध-रोग-तृणस्पर्श-मला इति परीषहव्याख्याने सूत्रकारैः किश्च 'एकादश जिने' ( अ० ९, सू० ११ ) इति सूत्रेण स्पष्टतयैव केवलिन्याहारपरीषहं व्याख्यायमानैः केवलिनामाहारसद्भाव आख्यायि । दिक्पटास्तु केवलिषु पात्राद्युपकरणाकवलाहारासम्भवमध्यास्यमाना नैवं मन्वते, स्वस्वव्याख्यासु च निषेधाय नअध्याहारादि कुर्वन्ति, परीषहाणां गुणस्थानावतारप्रसङ्गे निषेधाध्याहारादि विहाय असङ्गतं किमपि व्याख्यायते तैः । अत्र चायं विवेकः-दिक्पटाः केवलिषु कवलाहारं नैवाभिमन्यन्ते, श्वेताम्बरास्तु स्वीकुर्वन्ति । यदि दिकपटीयाभिप्रायेण मोहोदयसहायीकृतक्षुवेदनाया अभावाद् भगवति केवलिनि क्षुत्पिपासाप्रसङ्गाभावः, ततः
१ 'द्रव्याणि ' ' जीवाश्च' इति पृथक् पृथक् सूत्रं दिकूपटमते। २ श्वेताम्बरमते सप्तत्रिंशत्तमं सूत्रमिदम् । ३ 'कालश्वेत्येके' (अ.५, सू० ३.) इति श्वेताम्बरमतसूत्रपाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org