________________
२४
ग्रन्थकारसम्प्रदाय:
श्वेताम्बरदिगम्बरसम्प्रदायानुसारि वृत्तान्तद्वयं विचारितम् । अधुना सूत्रकाराः श्वेताम्बरीया दिगम्बरीया वा इत्यन्वेषणा क्रियते । उभयपक्षे ग्रन्थस्य प्रामाण्यरूपेण स्वीकृतिस्तस्मात् तद्गतसूत्रगवेषणेनैव ग्रन्थकारसम्प्रदायो निश्चेतव्य इति युक्तियुक्तो मार्गः । अतोऽन्ययुक्तीनामत्रोपेक्षा क्रियते ।
तत्र चतुर्थाध्याये ' दशाष्टपञ्चद्वादशविकल्पाः कल्पोपपन्नपर्यन्ताः' इति तृतीये सूत्रे सूत्रकारैर्मवनवासिनां दश व्यन्तराणामष्टौ ज्योतिष्काणां पञ्च कल्पोपपन्नवैमानिकानां च द्वादश भेदा इति देवभेदप्रदर्शकमुद्देशसूत्रमुक्तम् । दिगम्बरानुयायिटीकाकारमहाशयैरपि सर्वार्थसिद्धिटीकायां (पृ० १३५ ) तत्त्वार्थराजवार्तिके (पृ० १५०) तत्त्वार्थश्लोकवार्तिके (पृ० ३७२) चेदं सूत्रं मौलिकरूपेण कक्षीकृतम् । परन्तु सूत्रसंगृहीतभेदप्रदर्शनसमये भवनवासिनां व्यन्तराणां ज्योतिष्काणां तु यथार्थभेदान् प्रदर्शयित्वा वैमानिकानां भेदप्रदर्शनसमये सूत्रकाराभिमतान् द्वादश भेदान् परित्यज्य षोडशमेदानां प्रदर्शनं दिगम्बरैः कृतं, तसात् किं उद्देशभङ्गदोषारोपणं न भवति ? । यदि कल्योपपनवैमानिकानां षोडशभेदप्रदर्शनं सूत्रकाराभिमतं स्यात्, तर्हि 'दशाष्टपश्चषोडशविकल्पाः कल्पोपपनपर्यन्ताः' इति उद्देशसूत्रं विदध्यात् । न च व्यधात् । तेसादनौमाखातिकमेतदित्यनुमीयते । विचार्यतामुभयपक्षीयसूत्रम् । तत्र दिगम्बरसम्प्रदाये यथा
___“सौधर्मेशानसानत्कुमारमाहेन्द्रब्रमब्रह्मोत्तरलान्तवकापिष्ठशुक्रमहाशुक्रशतारसहस्रारेज्वानतप्राणतयोरारणाच्युतयोर्नवसु अवेयकेषु विजयवैजयन्तजयन्तापराजितेषु सर्वार्थसिद्धौ च।"
. -तत्त्वार्थराजवार्तिके अ० ४, सू० १९ श्वेताम्बरसम्प्रदाये तु
"सौधर्मेशानसानत्कुमारमाहेन्द्रब्रह्मलोकलान्तकमहाशुक्रसहस्रारेवानतप्राणतयोरारणाव्युतयोर्नवसु अवेयकेषु विजयवैजयन्तजयन्तापराजितेषु सर्वार्थसिद्धौ च।"
-(अ० ४, सू० २०) सूत्रकाराणां श्वेताम्बरत्वेऽन्या युक्तिरपि । तथाहि-पञ्चमाध्याये द्रव्याणामवगाहनिरूपणसमये यथा 'धर्माधर्मयोः कृत्स्ने' (लोकाकाशे), 'एकप्रदेशादिषु भाज्यः पुद्गलानां', 'असङ्ख्येयभागादिषु जीवानां' इति सूत्राणि रचितानि, तथैव यदि मुख्यकालरूपाः समग्रलोकगताः कालाणवः सत्याः स्युस्तर्हि तेषामप्यवगाहक्षेत्रं साक्षात् प्रदर्शितं भवेत् । न च केनापि प्रकारेण सूत्रकारैर्दर्शितं, तसात् कालाणूनां मुख्यकालरूपेण सत्ता तेषां मतेऽपि
१वैमानिकामां लेझ्यास्थित्यधिकारे दिगम्बरमान्यताया दुर्घटनाऽपि विचारणीया ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org