SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ २३ चार्यः 'प्रज्ञापना'कृत् श्रीवीरात् षट्सप्तत्यधिकशतत्रये ( ३७६ ) स्वर्गभाक् । प्रो० पिटर्सनकृते रिपोर्टसंज्ञके पुस्तके उमास्वातिसमयः श्रीवीरात् न शतत्रयीपूर्विक इत्युल्लेखः।" अतोऽनुमीयते श्रीउमास्वातयः श्रीवीरात् द्विशताब्दीपूर्वकालीनान, श्रीवीरात प्रायः ७२०तमे वर्षे तेषां प्रादुर्भाव इति युगप्रधानावल्याधारेणानुमीयते। दिगम्बरसम्प्रदायानुसारेण श्रीवीरात् ७१४--७९८ पर्यन्तो जीवनकालः श्रीउमास्वातीनाम् । यद्यपि श्रीउमास्वातीनां समयमीमांसने एतादृशी भिन्नता वर्तते, तथापीदं सुनिश्चितं सम्भाव्यते यदेतेषां प्रादुर्भावः श्रीवीरात् द्विशताब्दीत उत्तरकालीनः, नवमशताब्दीत: पूर्वकालीन इति ॥ ___अथ दिक्पटानुसारी वृत्तान्तो लिख्यते । तत्रास्मिन् ग्रन्थे दत्तानां कचित् पाठसंख्याभिन्नानां सूत्राणां रचयितारः प्राप्तचरणर्द्धयः पद्मनन्दापराभिधाना उमास्वातयः ।। ___एकदा जैनसिद्धान्तविषयिणी स्वशङ्कां दूरीकर्तुं ते विदेहक्षेत्रवर्तिश्रीमनामान्तरम् न्धरतीर्थकरमुपाजग्मुः । चारणार्द्धिबलात् गगनपथा गच्छतां तेषां हस्तन्यस्ता मयूरपिच्छिकाऽधः पतिता। तदानीं विष्णुचरणविहारिणः कस्यचिद् गृध्रस्य पिच्छिका गृहीत्वा निजकर्म निवाह्य पुरः प्रचेलुः । अतस्तेषां गृध्रपिच्छ इत्यपरा आहा आसीत् । उक्तं च __ "तत्वार्थसूत्रकर्तारं, गृध्रपिच्छोपलक्षितम् । वन्दे गणीन्द्रसंयात-मुमास्वामिमुनीश्वरम् ॥" एतैर्महाशयैः का भूमिः स्वजन्मनाऽलङ्कृतेति न ज्ञायते । परन्तु यदि चरमतीर्थकरश्रीमहावीरनिर्वाणसमयः ख्रिस्तशकात् ५२७ वर्षपूर्वको निश्चीयते तर्हि उमास्वातीनां इ० स० १३५-२३९ जीवनकालः । जन्मन एकोनविंशतिवर्षेषु व्यतीतेषु जीवनरेखा सहसोद्विग्नैः एभिर्महाशयः श्रीकुन्दकुन्दाचार्यसमीपे दीक्षा कक्षीकृता। ततः पञ्चविंशतिवर्षान्ते च सूरिपदं प्राप्तम् । अनेनाधारेणैषां जीवनकालस्य स्थूलरूपरेखाऽनुमीयते, सा यथावीरात् स्त्रिस्ताव जन्म ७१४तमेऽब्दे १३५तमेऽब्दे दीक्षा ७३३ , सूरिपदम् ७५८ , स्वर्गगमनम् ७९८ , १५४ ". १७९ ॥ २१९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy