________________
२२
तस्य त्वग्रहणे यत् स्यात् , क्षुद्रप्राणिविनाशनम् । ज्ञानध्यानोपघातो वा, महान् दोषस्तदैव तु ॥ ७॥"
-श्रीशान्त्याचार्यकृतश्रीउत्तराध्ययनसूत्र( अ० ३, पत्रा० १८० )वृत्त “आह वाचक:
यावत् परगुणदोषपरिकीर्तने व्यापृतं मनो भवति । तावद् वरं विशुद्धे ध्याने व्यग्रं मनः कर्तुम् ॥१॥"
--श्रीशान्त्याचार्यकृतश्रीउत्तराध्ययनसूत्र (अ० ४, पत्रा० १९०-१९१ )वृत्तं "आह च वाचक:-' इह चेन्द्रियप्रसक्ता निधनमुपजग्मुः। तद्यथा-गार्ग्यः सत्य कि.कर्द्धिगुणं प्राप्तोऽनेकशास्त्रकुशलोऽनेकविद्यावलसम्पन्नोऽपि । "
-श्रीशान्त्याचार्यकृतश्रीउत्तराध्ययनवृत्तौ( अ० ४, पत्रा० १९१ )वृत्त ____ उक्तं च वाचकैः
मङ्गलैः कौतुकैर्योगै-विद्यामन्त्रस्तथाषधः । न शक्ता मरणात् त्रातुं, सेन्द्रा देवगणा अपि ॥१॥"
-श्रीशान्त्याचार्यकृतश्रीउत्तराध्ययनसूत्र(अ०४, पत्रा० १९१)वृत्रं " वाचकेनाप्युक्तम्
यद् रागदोषवद् वाक्यं, तत्त्वादन्यत्र वर्तते । सावधं वापि यत् सत्यं, तत् सर्वमनृतं विदुः ॥१॥"
-तत्त्वार्थाधिगमसत्रस्य( अ० ७, सू०९)श्रीसैद्धसेनीयटीकाया श्रीउमास्वातिवाचकानां समयः
जन्ममरणशृङ्खलाखिद्यमानभव्यानां मोक्षमार्गोपदेष्टारः सङ्ग्रहीतृष्वनन्यतमा इमे सूरय कदेदं भूमण्डलं भूषयामासुरिति प्रश्नोऽधुना विचार्यते । मूरिवर्यकृतभाष्यान्तदत्तप्रशस्तित इर स्पष्टं भवति यदिमे सूरय उच्च नागरशाखीयाः । अस्याः शाखाया उत्पत्तिस्तु श्रीआर्यदिन्न शिष्यश्रीआर्यशान्तिश्रेणिकसमये। आर्यदिनाः श्रीवीरात् ४२१तमेऽब्दे जातानां आर्ये न्द्रदिनानां शिष्याः । अनेन श्रीउमास्वातयः श्रीवीरात् पश्चमशताब्दीपूर्वकालीना नेत्य नुमीयते । श्रीधर्मसागरगणि विरचितायां श्रीतपागच्छपट्टावलीसूत्रवृत्तौ तु उल्लेखो यथा
"श्रीआर्यमहागिरिसुशिष्यौ बहुलबलिस्सहो यमलभ्रातरौ । तत्र बलिस्सहस्र शिष्यः स्वातिः, तत्त्वार्थादयो ग्रन्थास्तु तत्कृता एव संभाव्यन्ते । तच्छिष्यः श्यामा
१ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यकृतसिद्धहमवृत्तौ ( अ० २, पा०२, सू०३९)"उपोमास्वाति सङ्ग्रहीतारः, उपजिनभद्रक्षमाश्रमणं व्याख्यातारः, तस्मादन्ये हीना इत्यर्थः" २ इदं च प्रज्ञापनानन्दीपावल्योः अनुगामि । ३ संभावना तु नामसादृश्यभ्रमेण ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org