________________
"सम्यक्त्वज्ञानशीलानि, तपश्चेतीह सिद्धये । तेषामुपग्रहार्थाय, स्मृतं चीवरधारणम् ॥१॥ जटी कूर्ची शिखी मुण्डी, चीवरी नग्न एव च । तप्यन्नपि तपः कष्टं, मौट्याद्धिंस्रो न सिद्धयति ॥२॥ सम्यग्ज्ञानी दयावांस्तु, ध्यानी यस्तप्यते तपः।
नग्नश्चीवरधारी वा, स सिद्धयति महामुनिः ॥३॥" इति वाचकवचनं श्रीउत्तराध्ययनस्य श्रीशान्त्याचार्यकृत( अ० २, पत्रा० ९३ )वृत्तौ " उक्तं च वाचकैः
शीतवातातपैर्दशैं-मशकैश्चापि खेदितः।। मा सम्यक्त्वादिषु ध्यानं, न सम्यक् संविधास्यति ॥ १॥"
-श्रीशान्त्याचार्यकृतश्रीउत्तराध्ययनसूत्र(अ० २, पत्रा० ९५)वृत्तौ " सूरिभिरुक्तम्
धर्मोपकरणमेवैतत्, न तुपरिग्रहस्तथा ॥ जन्तवो बहवः सन्ति, दुर्दी मांसचक्षुषाम् । तेभ्यः स्मृतं दयार्थ तु, रजोहरणधारणम् ॥१॥ आसने शयने स्थाने, निक्षेपे ग्रहणे तथा ।
गात्रसंको(कु)चने चेष्टं, तेन पूर्व प्रमार्जनम् ॥२॥ तथा
सन्ति सम्पातिमाः सत्त्वाः, सूक्ष्माश्च व्यापिनोऽपरे ।
तेषां रक्षानिमित्तं च, विज्ञेया मुखवस्त्रिका ॥३॥ किश्च
भवन्ति जन्तवो यस्मा–दन्नपानेषु केषुचित् ।
तस्मात् तेषां परीक्षार्थ, पात्रग्रहणमिष्यते ॥४॥ अपरश्च
सम्यक्त्वज्ञानशीलानि, तपश्चेतीह सिद्धये ।। तेषामुपग्रहार्थाय, स्मृतं चीवरधारणम् ॥५॥ शीतवातातपैदशै-मशकैश्चापि खेदितः। मा सम्यक्त्वादिषु ध्यानं, न सम्यक् संविधास्यति ॥ ६ ॥
Jain Education International
For Private & Personal Use Only
.
www.jainelibrary.org