________________
श्रीउमास्वातिमहर्षिभिः प्रकरणपश्चशती प्रणीता इत्युल्लेखः श्रीजिनप्रभसूरिकततीर्थकल्पे प्रशमरतेः श्रीहरिभद्रकृतटीकायां च । अनेन एतेषां पञ्चशतप्रकरणप्रणेतरूपेण प्रसिद्धिः श्वेताम्बरसम्प्रदाये । स्थानाङ्गवृत्ति-पञ्चाशकवृत्ति-श्रीउत्तराध्ययनवृत्त्यन्तर्गतनिम्नलिखितपाठा वाचकवर्यकृतोपलब्धग्रन्थेषु न दृष्टिपथेऽवतरन्ति, अतोऽपि संभवति तेषामन्यग्रन्थप्रणेतृत्वम् ।
"उक्तं च वाचकमुख्यैरुमास्वातिपादैःकृपणेऽनाथदरिद्रे व्यसनप्राप्ते च रोगशोकहते । यद् दीयते कृपार्थीदनुकम्पा तद् भवेद् दानम् ॥१॥ अभ्युदये व्यसने वा यत् किश्चिद् दीयते सहायार्थम् । तत्समहतोऽभिमतं मुनिभिर्दानं न मोक्षाय ॥२॥ राजारक्षपुरोहितमधुमुखमावल्लदण्डपाशिषु च ।। यद् दीयतेऽभयार्थ तदभयदानं बुधै यम् ॥३॥ अभ्यर्थितः परेण तु यद् दानं जनसमूहमध्यगतः। परचित्तरक्षणार्थ लज्जायास्तद् भवेद् दानम् ॥४॥ नटनतेमुष्टिकेभ्यो दानं सम्बन्धिबन्धुमित्रेभ्यः। यद् दीयते यशोऽथ गर्वेण तु तद् भवेद् दानम् ॥ ५॥ हिंसानृतचौर्योद्यतपरदारपरिग्रहप्रसक्तेभ्यः । यद् दीयते हि तेषां तज्जानीयाधमोय ॥६॥ समतृणमणिमुक्तेभ्यो यद् दानं दीयते सुपात्रेभ्यः । अक्षयमतुलमनन्तं तद् दानं भवति धर्माय ॥ ७॥ शतशः कृतोपकारो दत्तं च सहस्रशो ममानेन । अहमपि ददामि किश्चित् प्रत्युपकाराय तद् दानम् ॥ ८॥"
-स्थानाङ्गस्य श्रीअभयदेवमूरिकृतवृत्तौ “ उमास्वातिवाचकेनाप्यस्य समर्थितत्वात् । तथाहि तेनोक्तम् - सम्यग्दर्शनसम्पन्नः षड्विधावश्यकनिरतश्च श्रावको भवति इति ॥"
–पञ्चाशकस्य श्रीअभयदेवसूरिकृतवृत्तौ " उक्तं वाचकमुख्यैः
परिभवसि किमिति लोकं, जरसा परिजर्जरितशरीरम् । अचिरात् त्वमपि भविष्यसि, यौवनगर्व किमुद्वहसि ॥१॥"
- श्रीउत्तराध्ययनसूत्र(अ० १०, पत्रा० २४४ )स्य श्रीभावविजयकृतकृचौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org