SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ विहरमाणैश्च तैः 'कुसुमपुरे' पाटलीपुत्रनामधेयेऽयं ग्रन्थः सन्हब्धः । अत्र च भाष्यान्ते दत्ता निम्नलिखिता प्रशस्तिः प्रमाणम् । " वाचकमुख्यस्य शिवाश्रियः प्रकाशयशसः प्रशिष्येण । शिष्येण घोषनन्दिक्षमणस्यैकादशाङ्गविदः ॥ १॥-आर्या वाचनया च महावाचकक्षमणमुण्डपादशिष्यस्य । शिष्येण वाचकाचार्यमूलनाम्नः प्रथितकीर्तेः ॥२॥ न्यग्रोधिकाप्रसूतेन विहरता पुरवरे कुसुमनाम्नि । कौभीषणिना स्वातितनयेन वात्सीसुतेनाय॑म् ॥३॥ अर्हद्वचनं सम्यग् गुरुक्रमेणागतं समुपधार्य । दुःखातं च दुरागमविहतमतिं लोकमवलोक्य ॥ ४ ॥ इदमुच्चै गरवाचकेन सत्त्वानुकम्पया दृब्धम् । तत्त्वाथोधिगमाख्यं स्पष्टमुमास्वातिना शास्त्रम् ॥५॥" वाचकवर्यश्रीउमास्वातीनां कृतयः१ श्रीतत्त्वार्थाधिगमसूत्रम् । २ श्रीतत्त्वार्थाधिगमभाष्यम् । ३ प्रेशमरतिः। ४ जम्बूद्वीपसमासप्रकरणम् । ५ पूजाप्रकरणम् ( एकोनविंशतिश्लोकात्मकम् )। ६ श्रीवकप्रज्ञप्तिः। ७.क्षेत्रविचारः। १ धर्मरत्नप्रकरणप्रणेतृश्रीशान्तिसूरिभिरपि तत्प्रकरण ( गा० १०३ ) स्वोपज्ञवृत्तावुक्तम्" पूर्वगतवेदिना चोमास्वातिवाचकेन प्रणीतप्रवचनोन्नतिहेतुप्रशमरतितत्त्वार्थाद्यनेकमहाशास्त्रेण ।" २ प्रसिद्धयनुसारेण। ३ धर्मबिन्दोः श्रीमुनिचन्द्रसूरिकृतटीकायां निम्नलिखितोल्लेखात् "उमास्वातिविरचितश्रावकाशप्तौ तु अतिथिशब्देन साध्वादयश्चत्वारो गृहीताः, ततस्तेषां संविभागः कार्य इत्युक्तम् । तथा च तत्पाठः-अतिथिसंविभागो नाम अतिथयः साधवः साध्व्यः श्रावकाः श्राविकाश्चैतेषु गृहमुपागतेषु भक्त्याऽभ्युत्थानासनदानपादप्रमार्जननमस्कारादिमिरर्चयित्वा यथाविभवशक्ति अन-पान-वस्त्रौषधालयादिप्रदानेन संवि. भागः कार्य इति ।" ४ श्रीहरिभद्रसूरिकृतटीकासमलङ्कृतोऽयं ग्रन्थो वाचकवर्यस्य कृतिरिति प्रतिभाति । ५ नवमात्रग्रन्थोत्थानिकायां यशोभद्रचरित्रं वाचकवर्याणां कृतिरित्युल्लेखः, परन्तु प्रमाणानुपलब्धेः स विचारणीयः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy