SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ २१ श्रीअभयनन्दिसूरिप्रणीता तात्पर्यतत्त्वार्थटीका । २२ तत्त्वार्थसूत्रव्याख्यानं कर्णाटकीयभाषायाम् । २३ श्रीतत्त्वार्थाधिगमसूत्रस्य महाशयजगमन्दरलालजैनीकृतं आङ्ग्लभाषायां विवरणम् । अपरं च हिन्दीभाषायां पञ्चदश टीका वर्तन्ते । तेषां नामाद्युल्लेखाय उपर्युक्तो नवमाङ्को ग्रन्थो द्रष्टव्यः॥ ग्रन्थकारपरिचय: ग्रन्थकारनामादिषु श्वेतपटानां दिक्पटानां च नैकता । तस्मात् प्रथमतः श्वेताम्बरानुसारी वृत्तान्तो दश्यते । तत्र उपयुक्त ३४४ सूत्राणां तदुपरिकृतभाष्यस्य तत्पूर्वप्रणीतसम्बन्धकारिकाणां च प्रणेतार उच्चै गरशाखीयभगवत्पादश्रीउमास्वातिसूरयः । एतैर्जन्मना 'न्यग्रोधिका' पावनीकृता। 'वात्सी गोत्रीया उमा माता 'कौभीषणी 'गोत्राख्यः स्वातिः पिता चैषां जन्मदाता । अनयोनोमधेययोः संयोजनेन तेषां नामनिष्पत्तियेथा बैप्पभहिसूरीश्वराभिधाने। इमे सूरयः जन्मतो द्विजाः शिवादौ रक्ता आसन्, किन्तु जिनमूर्तिदर्शनात जैनव्रतधारिणोऽभूवन् , क्रमेण पूर्वविदो भूत्वा वाचकेतिपदवी प्राप्तवन्त इत्यवगम्यते श्रीगुणाकरसूरिकृतनिम्नोल्लेखदर्शनात्___....अन्यत्र देवान्तरे न तोष-चित्तानन्दमुपयाति-उपैति उमास्वातिवाचकवत् । सोऽदृष्टपूर्वा जिनमूर्ति दृष्ट्वा स्तुतिं पठितवान् पुनरेव तवाचष्टे, भगवन् ! वीतरागताम् । नहि कोटरसंस्थेऽग्नौ, तरुर्भवति शाड्वलः ॥१॥ ततोऽन्यत्र शिवादौ विरक्तो जिनधर्मदर्शनासक्तोऽभूदुमास्वातिजिसूनुरात्तव्रतः सूरिपदमाप । क्रमात् पूर्वगतवेत्ता वाचकोऽभूत् ।" -भक्तामरस्तोत्रवृत्तौ (पृ० २९) वाचकमुख्यस्य शिवश्रियः प्रशिष्याः, घोषनन्दिश्रमणस्य शिष्याः, वाचनया तु महावाचकश्रमणमुण्डपादस्य प्रशिष्याः वाचकपदवीसमलता इमे उमास्वातयः । १ जैनेन्द्रव्याकरणस्य बृहद्वत्तिकाराः ७७५तमे शकसंवत्सरे जाताः। . २ श्रीलक्ष्मीसेनभट्टारकसत्कम् । ३ जम्बूद्वीपसमासटीकायां श्रीविजयसिंहमुनीश्वरैरप्युक्तम्॥ अस्य सङ्ग्रहकारस्य उमा माता स्वातिः पिता, तत्सम्बन्धादुमास्वातिः।" ४ बप्पनामा पिता, भहिनानी मातेति विशेषः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy