________________
सूत्रं १५] स्वोपज्ञभाष्य-टीकालङ्कृतम्
२८९ मपि वाच्यम् । सूर्ययोश्चन्द्रमसोश्च जम्बूद्वीपे सर्वाभ्यन्तरमण्डलस्थयोरन्तरं नवनवतिर्योजनसहस्राणि षट् च शतानि चत्वारिंशदधिकानि ।। भा०-एतानि च ज्योतिष्कविमानानि लोकस्थित्यां प्रसक्तावस्थितगती
न्यपि ऋद्धिविशेषार्थमाभियोग्यनामकर्मोदयाच नित्यगतिरतयो ज्योतिष्कविमान वाहकः न देवा वहन्ति । तद्यथा-पुरस्तात् केशरिणः। दक्षिणतः कुञ्जराः।
अपरतो वृषभाः । उत्तरतो जविनोऽश्वा इति ॥ १४ ॥ टी-एतानि च ज्योतिष्कविमानानीत्यादि, नेश्वरादीच्छातः, किन्तु लोकानुभावादेव, एतानि विमानानि ज्योतिषां प्रसक्तावस्थितगतीन्यपि प्रसक्ता-सम्बद्धा अवस्थिता-आभीक्ष्ण्येन गतिर्येषां तानि प्रसक्तावस्थितगतीन्यपि सन्ति समृद्धिविशेषप्रकटनायाभियोग्यनामकर्मोदयभाजः सर्वदैव गतिरतयो गमनक्रीडाशीला देवा वहन्ति । चशब्दः समुच्चये । ऋद्धिविशेषार्थमाभियोग्यनामकोदयाचेत्यनेनैतद् भाष्येण प्रतिपादयति-न च तेषां वोढणां भारजनितं दुःखं समस्ति, ते हि गमनक्रीडाप्रियत्वाल्लोकानुभावादेव तेषु भ्रमत्स्वधस्तात् स्थिता नानावेषधारिणो व्रज्यां प्रतिपद्यन्ते, अवन्ध्यफलत्वादाभियोग्यकर्मणः, तद्यथा-नखदंष्ट्राटोपकेसरभासुरसटाप्रकीर्णकिरणसमूहानुरञ्जिताः कपिलनयनतारकाः केसरिणः पुरस्ताद वहन्तीति । दक्षिणतो मदप्रसेकार्द्रगण्डा मदावघूर्णितप्रसारितकराः षड्दन्तोपशोभितानना दन्तिनः, अपरतः प्रशस्ताङ्गोपाङ्गोपचितमूर्तयो वृषभाः, उत्तरतो जविनोऽश्वा इति । सर्वे चैते षोडशसहस्रसङ्ख्या देवाः सवितुर्विमानं वहन्ति, तथा चन्द्रमसः । ग्रहविमानमष्टौ सहस्राणि वहन्ति, नक्षत्रविमानं चत्वारि सहस्राणि, ताराविमानं सहस्रद्वयमिति । सर्ववहिर्मण्डलस्थयोरन्तरं योजनलक्षं षट् च शतानि षष्टयधिकानि सूर्ययोः, चन्द्रमसोरप्येतदेव बहिर्मण्डलस्थयोरन्तरं पोडशैकषष्टिभागहीनं, पञ्च शतानि नवोत्तराणि त्रिपञ्चाशच्चैकपष्टिभागाश्चन्द्रमसः काष्ठान्तरमवसेयम्, मण्डलान्तरं तु पञ्चत्रिंशद् योजनानि त्रिंशदेकषष्टिभागाश्चत्वारश्च सप्तभागा योजनस्येति ॥ १४ ॥
येयं ज्योतिषां गतिः सातत्येनैनामन्ये काल इत्यध्यवस्यन्ति, तत् कथमिति ? उच्यतेन गतिशब्दवाच्यः कालः, तत्साध्यः किन्तु योऽयमतीतानागतवर्तमानभेदः सः ।
सूत्रम्-तत्कृतः कालविभागः॥४-१५ ॥ 'भा०-कालोऽनन्तसमयः वर्तनादिलक्षण इत्युक्तम् (अ०५, सू०३९, २२)। तस्य विभागो ज्योतिष्काणां गतिविशेषकृतश्चारविशेषेण हेतुना । तैः कृतस्तत्कृतः।
टी०-अथवा यत एव ज्योतिष्काः सदा नियतगतयो नान्ये, अत एवायं नृलोके तत्कृतः कालविभागः। कालोऽनन्तसमय इत्यादि भाष्यम् । मुख्यवृत्तिसमाश्रयणात् सक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org