________________
२८८ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ४ सवितुश्च द्वियोजनान्तरितमार्गाणां ज्यशीतं मण्डलशतम् । तेषां हि पूर्वविदेहदिवसान्तात् पूर्वदक्षिणविदिग्भाजो मार्गान् मार्गान्तरगामिनस्त्रिषष्टिरुदयान्निषधमस्तके दक्षिणक्षेत्रवर्तिमनुप्यचक्षुद्देश्या द्वौ हरिवर्षज्याकोव्यां, शेषमष्टादशोत्तरं शतं लवणोदधाविति, अपरविदेहान्तेऽप्येवं, द्वितीयस्य तु पश्चिमोत्तरविदिग्भाजो नीलमस्तके रम्यके लवणोदधौ चोत्तरक्षेत्रजानां दृष्टिपथस्थायिन इति, उदयविधानात् त्वस्तमयं विद्यात् । चन्द्रमसः पञ्चदश मण्डलानि । सर्वोत्तरोदयस्य सर्वदक्षिणोदयस्य चान्तरं पञ्च योजनशतानि दशोत्तराणि सवितुः, तत्राशीतं योजनशतं जम्बूद्वीपे लभ्यते, त्रीणि योजनशतानि त्रिंशदुत्तराणि लवणोदधौ लभ्यन्तेऽर्कस्य । सूर्या इत्यादि भाष्यम् । एते किल तिर्यग्लोकव्यवस्थिताः । शेषास्तु प्रकीर्णतारका ऊर्ध्वलोके भवन्ति इति । आचार्य एवेदमवर्गच्छति, नत्वार्षमेवमवस्थित, सर्वज्योतिष्काणां तिर्यग्लोकव्यवस्थानादिति ।
भा०-अष्टचत्वारिंशद योजनैकषष्टिभागाः सूर्यमण्डलविष्कम्भः, चन्द्रमसः षट्पञ्चाशत्, ग्रहाणामधयोजनम्, गव्यूतं नक्षत्राणाम्, सर्वोत्कृष्टायास्ता
राया अर्धक्रोशः, जघन्यायाः पञ्च धनुःशतानि, विष्कम्भार्धसूर्यादीनां विष्णन बाहल्याश्च भवान्त सर्वे सूर्योद्यः, नृलोक इति वर्तते । बहि
स्तु विष्कम्भबाहल्याभ्यामतोऽधं भवति ॥ टी०-अष्टचत्वारिंशदित्यादि । आयामविष्कम्भाभ्यामिदमादित्यमण्डलप्रमाणम्, तथा चन्द्रमसः सुज्ञानम्, अर्धयोजनप्रमाणं ग्रहविमानम्, नक्षत्रविमानं गव्यूतप्रमाणम्, आयुषा सर्वोत्कृष्टायास्तारकाया अर्धक्रोशप्रमाणं विमानम्, सवेजघन्यायाः पञ्च धनुःशतानि, शेषा विमध्यमा प्रतिपत्तिर्वक्तव्येति । एषामेव सूर्यादिविमानानां बहलत्वनिर्दिदिक्षया आह-विष्कम्भाधबाहल्याश्च भवन्ति नृलोकान्तर्वतिसूर्यादिविमानानि स्वविष्कम्भार्धेन बहलानि भवन्ति । तद्यथा-सवितुर्विमानमण्डलं चतुर्विंशतिरेकपष्टिभागा योजनस्य, एवं शेषाणामपि वाच्यम् । अथ मानुषोत्तरात् परतः कथमित्यत आह-बहिस्तु विष्कम्भबाहल्याभ्यामतोऽधं भवति नृलोकान्तर्वर्तिनां सवित्रादिविमानानां यो विष्कम्भोऽभिहितस्तस्या बहिवर्तिनामुष्णकरादिविमानानां विष्कम्भो भवति, यथाऽन्तवतिनः आदित्यस्याष्टचत्वारिंशदेकपष्टिभागा योजनस्य विमानविष्कम्भस्तदर्ध चतुर्विशतिरेकषष्टिभागा योजनस्य बहिर्वर्तिनः सवितुर्विमानविष्कम्भ इत्येवं शेषाणामपिवाच्यम्, तथाऽन्तर्वर्तिनः सवितुश्चतुर्विंशतिरेकषष्टिभागा योजनस्य विमानबाहल्यमुक्तं बहिर्वर्तिनस्तदर्ध द्वादशैकषष्टिभागा योजनस्य विमानबाहल्यम्, एवं शेषाणा
१ अशीत्यधिकाष्टाशत्यामवस्थितात् चन्द्राद ऊर्ध्वभागीये लोके, ततः विंशत्यामवस्थानाभ्युपगमात्, नवशत्याश्च तिर्यग्लोकत्वेनास्वीकारात्, प्राकू तिर्यग्लोके इत्युक्तिस्तूप्रभागे सूर्यादीनां तारादिवदनियततावारणार्थम् । २'वाच्या' इति क-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org