________________
सूत्रं १४ ]
स्वोपज्ञभाष्य-टीकालङ्कृतम्
२८७
I
प्रादक्षिण्येन नापसव्येन मेरो:, लोकस्थित्यनुभवाद् विमानान्येव नृलोके भ्रमणशीलानि भवन्ति, न पुनरभ्रमन्त्यपि । ये वा प्रेरयन्ति । तानि च पृथिवी कायनिर्माणान्यातपनामकर्मोदयात् स्फटिकमणिप्रकाशानि भ्राजिष्णूनि कपित्थफलार्धसंस्थानानि भवन्ति ॥ ननु च भ्रवः सर्वदा ध्रुवस्तत्रैवोपलभ्यते, नहि तस्य मेरुप्रदक्षिणा नित्या गतिरस्ति, स च ज्योति - कस्तदेतत् कथमिति ? उच्यते - पञ्चप्रकारा सूर्यादयो ज्योतिष्काः, तत्रैको भेदस्तारकाख्यस्तस्याप्येकदेशो ध्रुवो यदि मेरोः प्रादक्षिण्येन (प्र) व्रज्यां न प्रतिपद्यते ततस्तद्गत्या किमवशेषाणां नानुशासितव्या गति: ? । यथा हि राजादिप्रधानपुरुषप्रयाणकप्रदाने तिष्ठत्स्वपि केषुचित् प्रयाणकं दत्तं स्कन्धावारेणेति लोकः प्रभाषते तथा प्रधानेषु सूर्यादिषु प्रयात्सु तद्भेदैकदेशागमas ज्योतिका नित्यगतयोऽभिधास्यन्ते । अथवा नित्यगतय इति तत्रैव स्थाने स ध्रुवः परिभ्राम्यति, न तु मेरोः प्रादक्षिण्येन गतिं प्रतिपद्यते, तथाहि - तदद्यापि ध्रुवताराचक्रमाक्रान्तोत्तरदिकं परिवर्तमानमुपलभ्यते प्रत्यक्षप्रमाणेनैव, अतो मेरुप्रदक्षिणाः केचिन्नित्यगतयश्च, अपरे नित्यगतयो न मेरुप्रदक्षिणा इति । अथवा मेरुप्रदक्षिणा अनित्या गतिर्येषां ते मेरुप्रदक्षिणानित्यगतय इत्ययं वाक्यार्थो भवति, न सर्वेषामवश्यंभाविनी गतिर्मेरोः प्रादक्षिण्येन, किन्तु केषांचिद् भवति केषांचिन्न, गतिः पुनरवश्यंभाविनी तथाऽन्यथा वा, न तस्या निषेध इति । एकादशस्वेकविंशेष्वित्यादि गतार्थं प्रायः । मेरोश्चतुर्दिशमिति दिक्शब्देन समानार्थी दिशाशब्दस्तमनुसन्धाय भाष्यकारेणोक्तं चतुर्दिशमिति ।
अधुना अर्धतृतीयद्वीपान्तर्वर्तिनां सूर्यादीनामियत्तामावेदयितुमाह
भा०-तत्र द्वौ सूर्यो जम्बूद्वीपे । लवणे चत्वारः । धातकीखण्डे द्वादश । कालोदधौ द्विचत्वारिंशत् । पुष्करार्धे द्विसप्ततिः । इत्येवं मनुष्यलोके द्वात्रिंशत् सूर्यशतं भवति । चन्द्रमसामप्येष एव विधिः । अष्टाविं शतिर्नक्षत्राणि । अष्टाशीतिर्ग्रहाः । षट्षष्टिसहस्राणि नव शतानि पञ्चसप्ततीनि ताराकोटा कोटीनामेकैकस्य चन्द्रमसः परिग्रहः । सूर्याचन्द्रमसो ग्रहा नक्षत्राणिच तिर्यगलोके, शेषास्तूर्ध्वलोके ज्योतिष्का भवन्ति ।
टी० -तत्र द्वौ सूर्यावित्यादि । एते तु स्वतापच्छेदतः प्रकाशयन्तः प्रदक्षिणं चरन्ति, ता पक्षेत्रं चैषामन्तः सङ्कटं बहिर्विशालं नाल ककुसुमाकृतिः सप्तचत्वारिंशद्योजनसहस्राणि त्रिषष्ट्यधिकानि शतद्वयोत्तराणि योजनैकषष्टिभागाश्चैकविंशतिः ( ४७२६३२१ ) प्रत्येकं सूर्याणां, मनुष्यक्षेत्रे च द्वात्रिंशदुत्तरं सूर्यशतमवगन्तव्यं, चन्द्रमसोऽप्येतावन्त एव बोद्धव्याः । अष्टाविंशतिर्नक्षत्राप्यभिजिता सह, ग्रहाणामष्टाशीतिर्भस्मराश्यादीनाम्, एकस्य खलु चन्द्रमसस्ताराः कोटीनां कोट्य एतावत्यो भवन्ति षट्षष्टिसहस्राणि नव च शतानि पञ्चसप्तत्यधिकानि ।
६१
सूर्यादीनां
संख्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org